पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३९५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[स्नातकस्य काम्यधर्माः]
३९१
संस्काररत्नमाला ।

द्विस्तूष्णीम् । तज्जीवशृङ्गं गृहाद्बहिः केनचिदप्यपरिगृहीते देशे गुप्तं निधापयति स्वयं वा निदधाति ।

 यस्यामात्यादय उच्छिष्टनिमित्तं द्रवेयुः सः--

'अनुपौह्वदनुपह्वयेन्निवर्तो योन्यवीवृधः । ऐन्द्रो वः परिक्रोशः परिक्रोशतु सर्वदा । यदिति मामिति मन्यायध्वं माया देवा अवत्तरम् । इन्द्रः पाशो नवः सिक्त्वा मह्यं पुनरुदाजतु' [ इति ] तान्सर्वत आह्वयेत् ।

 ततः स्वागारं प्रविश्योल्लेखनादिविधिना स्थण्डिलसंस्कारं विधाय तत्र पावकनामानं लौकिकाग्निं प्रतिष्ठाप्य प्रज्वाल्य ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वाऽमात्यस्यान्तेवासिनः कर्मकरस्य वाऽनपक्रमणीयत्वसिद्ध्यर्थं होमकर्मणि या यक्ष्यमाणा देवता तां परिग्रहीष्यामि । इन्द्रमाज्याहुत्या यक्ष्ये । एतां देवतां सद्यो यक्ष्य इत्युक्त्वा समिधोऽग्नावभ्याधायाग्निं परिस्तीर्याग्नेरुत्तरतो दर्भान्संस्तीर्य तत्र पात्राण्यासादयेत् । दर्वीं गर्तवत्फलकं वाऽऽज्यस्थालीं प्रोक्षणीपात्रमुपवेषं संमार्गदर्भानवज्वलनदर्भान्बहिराज्यं सैध्रकीं प्रादेशमात्रीं समिधं चेत्यासाद्य पवित्रे कृत्वा प्रोक्षणीः संस्कृत्य दर्वीं निष्टप्य संमृज्य पुनर्निष्टप्य निदधाति । यदि तु फलकमासादितं न तु दर्वी तदा तस्यापि निष्टपनादि ।

 ततः संमार्गदर्भानभ्युक्ष्याग्नावनुप्रहृत्याऽऽज्यविलापनादि पवित्रे अग्नावाधायेत्यन्तं कृत्वाऽदितेऽनुमन्यस्वेत्यादिभिरग्निं परिषिच्याऽऽसादितां सैध्रकीं समिधं तूष्णीमग्नावभ्याधाय, आवर्तन वर्तयेत्यस्य सोम इन्द्रः पङ्क्तिः । अनपक्रमणीयत्वसिद्ध्यर्थं होमे विनियोगः । 'ॐ आवर्तन वर्तय नि निवर्तन वर्तयेन्द्र नर्तबुद । भूम्याश्चतस्रः प्रतिशस्ताभिरावर्तया पुनः स्वाहा' [ इति ] आसादितेन दर्वीफलकान्यतमेनैकामाज्याहुतिं जुहोति । इन्द्रायेदमिति त्यागः ।

 ततः परिस्तरणानि विसृज्य साङ्गतासिद्ध्यर्थं सर्वप्रायश्चित्तं हुत्वाऽदितेऽन्वम स्था इत्याद्यैः परिषिच्य संस्थाजपेनोपस्थायाग्निं संपूज्य विष्णुं संस्मरेत् ।

अथाऽऽघारवत्तन्त्रेण प्रयोगः ।

 उल्लेखनादिप्राणायामान्तं कृत्वाऽनपक्रमणीयत्वसिद्ध्यर्थहोमकर्मणि या यक्ष्यमाणेत्यादि प्रसाधनीदेवीहोमान्तं व्याहृत्यन्तं वोक्त्वा प्रधानहोमे, इन्द्रमाज्याहुत्या यक्ष्य इत्युक्त्वाऽग्निं स्विष्टकृतं हुतशिष्टाज्याहुत्या यक्ष्य इत्यादि,