अत एवोक्तं संग्रहे--
"तेनोक्तं च तथा कृत्वा स्नानं शिष्यः समाचरेत् । |
तेनोक्तं गुरुणोक्तम् । एतद्दानं गुरुप्रीत्यर्थं न विद्यानिष्क्रयः । वेदविद्यार्हस्य मूल्यस्यासंभवात् । तथा च च्छन्दोगश्रुतिः--" यद्यप्यस्मादि[१]ळामद्भिः परिगृहीतामन्नेन पूर्णां दद्यादेतदेव ततो भूयः" इति । इळा[२] पृथिवी । एतद्विद्याग्रहणम् ।
तापनीयश्रुतिरपि--
"सप्तद्वीपवती भूमिर्दक्षिणार्थं न कल्पते" इति । |
माधवीये हारीतोऽपि--
"एकमप्यक्षरं यस्तु गुरुः शिष्ये नियोजयेत् । |
- आहिताग्निश्चेद्गुरुः "यद्यश्वं प्रतिगृह्णीयात्तदा निष्क्रयस्य षष्ठांशं द्वादशांशं वा ब्राह्मणाय दत्त्वा यावतोऽश्वान्प्रतिगृह्णीयात्तावतो वारुणान् चतुष्कपालान्निर्वपेत्" इतिश्रुतिविहितामश्वप्रतिग्रहेष्टिं कुर्यात् ।
गृह्याग्निमांस्तु तत्स्थाने स्थालीपाकान्कुर्यात्--
"अश्वप्रतिग्रहं कृत्वा चरेच्चान्द्रायणत्रयम् । |
इत्यरुणस्मृत्युक्तस्य शक्तौ सत्यां समुच्चयः । दातुरियमिष्टिरिति मीमांसकमतं तु न सत्याषाढसूत्रानुसारिणामिष्टम् । "ऋत्विजोऽश्वप्रतिग्रहे वारुणी" इति काम्येष्टिप्रकरण ऋत्विज एव तस्या विधानात् । ऋत्विज इति षष्ठ्येकवचनम् । एकत्वमन्त्राविवक्षितमुद्देश्यगतत्वात् । ग्रहं संमार्ष्टीतिवत् ।
वेदाध्ययनोत्तरं तदर्थमधिगम्यैव समावर्तनं कर्तव्यम् ।
"वेदान्वेदांस्तथा वेदौ वेदं वाऽपि समाहितः । |
प्रथमं वेदानितिवचनं चतुष्ट्वाभिप्रायं, द्वितीयं त्रित्वाभिप्रायम् । अर्थमधिगम्यार्थं ज्ञात्वेत्यर्थः ।