पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३७२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३६८
[समावर्तनसंस्कारः]
भट्टगोपीनाथदीक्षितविरचिता--

मन्यन्ते । एवमधीत्य वेद स्नानं तद्व्याख्यास्याम इत्यत्र वेदमित्युपलक्षणं व्रतस्य

 अत्र याज्ञवल्क्यः--

"वेदं व्रतानि वा पारं नीत्वा ह्युभयमेव वा ।
अविप्लुतब्रह्मचर्यो लक्षण्यां स्त्रियमुद्वहेत्" इति ॥

 अत्र व्रतशब्देनाऽऽचार्यकुलवास्यश्नाति क्षारं लवणमित्यादयो ब्रह्मचारिधर्मा उच्यन्ते । तेषु हि कालपरिमाणस्य श्रुतत्वात् । दृश्यते च तेषु व्रतशब्दः । यथा व्रतेषु समर्थः स्याद्यानि वक्ष्याम इति । न तु वेदव्रतानि । तेषां तत्तत्प्रदेशाध्ययनशेषतया तदभावेऽभावाद्वेदं व्रतानि वेतिविकल्पानुपपत्तेः । अतः कालविशेषावच्छिन्नानि व्रतानि वेदमुभयं वा पारं नीत्वेत्यर्थ इति व्याख्यातमुज्ज्वलाकृता । "जातपुत्रः कृष्णकेशोऽग्नीनादधीत" इतिश्रुतिविरोधपरिहारायाष्टाचत्वारिंशतमिति पक्ष आधानानधिकारिणि पक्षान्तराणि त्वधिकारिणीति व्यवस्थां केचिद्वदन्तीत्यपि तेन मातृदत्तेन चोक्तम् ।

 मनुः--

"वेदानधीत्य वेदौ वा वेदं वाऽपि समाहितः ।
अविप्लुतब्रह्मचर्यो गृहस्थाश्रममाविशेत्" इति ॥

 एवं चाधीत्य वेद स्नानमित्यत्र वेदमित्येकवचनमविवक्षितम् । एतच्च स्नानं गुरवे वरं दत्त्वा कार्यम् ।

 तथा च याज्ञवल्क्यः--

"गुरवे तु वरं दत्त्वा स्नायीत तदनुज्ञया ।
वेदं व्रतानि वा पारं नीत्वा ह्युभयमेव वा ।
अविप्लुतब्रह्मचर्यो लक्षण्यां स्त्रियमुद्वहेत्" इति ॥

 अत्रापि वेदमित्येकवचनमविवक्षितम् ।

 वरस्वरूपे विशेषोऽत्र मनुनोक्तः--

"स्नास्यंस्तु गुरुणाऽऽज्ञप्तः शक्त्या गुर्वर्थमाहरेत् ।
क्षेत्रं हिरण्यं गामश्वं छत्रोपानहमन्ततः ॥
धान्यं वासांसि शाकं वा गुरवे प्रीतिमावहन्" इति ।

 आज्ञप्तः समावर्तनायानुज्ञातः । क्षेत्रं सस्यवत् । छत्रोपानद्द्रव्ययोः सहितयोरेवोपादानं द्वंद्वोपादानात् । वासांसि त्रीणि । एतेषां मध्ये यदेव गुरोः प्रियं तदेव दद्यादित्याशयः । गुरवे प्रीतिमावहन्नित्यनेन दानमन्तरेणैव गुरोः प्रीतौ केवलं तदनुज्ञयैव समावर्तनं कुर्यादित्यपि सूच्यते ।