केचित् । विनाशस्य निमित्तत्वात्प्रायश्चित्तं भवत्येवेत्यन्ये । ) यः कोपेन बलात्कारेण वा स्वधृतं यज्ञोपवीतं छिनत्ति चेत्पूर्ववन्नवतन्तुमात्रं धृत्वा नद्यादौ स्नात्वाऽन्यानि यज्ञोपवीतानि पूर्ववद्धृत्वा छिन्नं पूर्ववद्विसृजेत् । छेदनपापविशुद्ध्यर्थमष्टोत्तरसहस्रं गायत्रीं जपेत् । अत्र महापातकयुक्तस्तु तत्पातकप्रायश्चित्तकरणपर्यन्तं संस्कृतं यज्ञोपवीतं विहाय लौकिकं सूत्रं धारयेत् । ब्राह्मणब्रुवकानीनकुण्डगोलकव्रात्यकुष्ठ्यवकीर्णिनस्त्वसंस्कृतं यज्ञोपवीतं धारयेयुरित्याह्निकपारिजाते ।
जीर्णस्य परित्यागे विशेषस्तत्रैव--
- "जीर्णं सरिदब्धितटाकाद्यन्यतमोदके समुद्रं गच्छ स्वाहेतिमन्त्रेण प्रणवेन व्याहृतित्रयेण वा विसृजेत्" इति ।
अथ कमण्डलुभङ्गप्रायश्चित्तम् ।
तत्रेदं बौधायनधर्मसूत्रम्--
"भग्ने कमण्डलौ व्यात्दृतिभिः शतं जुहुयाज्जपेद्वा भूमिर्भूमिमगान्माता मातरमप्यगात् । भूयास्म पुत्रैः पशुभिर्यो नो द्वेष्टि स भिद्यतामिति भिन्नमभिमन्त्र्य कपालानि संगृह्याप्सु निक्षिप्य सावित्रीं दशावरां जपित्वा पुनरेवान्यं गृह्णीयादेतत्ते वरुण पुनरेतु मामोम्" इति ।
अथ समावर्तनम् ।
तत्रेदं गृह्यम्--"अधीत्य वेद स्नानम्" इति । वेदो मन्त्रब्राह्मणात्मकः । "मन्त्रब्राह्मणयोर्वेदनामधेयम्" इति सूत्रात् । कर्मविधानं ब्राह्मणम् । अर्थवादादीनां तु ब्राह्मणशेषत्वम् । "कर्मविधानं ब्राह्मणं तच्छेषोऽर्थवादो निन्दा प्रशंसा परकृतिः पुराकल्पश्च" इति सूत्रात् ।
भद्रादिदशप्रश्नानामरण्येऽध्येतव्यत्वादारण्यक इति संज्ञा न तु पृथक्कश्चन वेदभागोऽयम् । स्नानशब्देन समावर्तनम् । धर्मसूत्रे विशेषः-- "विद्यया स्नातीत्येके तथा व्रतेनाष्टाचत्वारिंशत्परिमाणेन विद्या व्रतेन च" इति वेदविद्या विद्या तया संपन्नः स्नानं कुर्यादित्येके मन्यन्ते । अष्टाचत्वारिंशद्ग्रहणं गृह्योक्तस्य चतुर्विंशतिरित्यादेरुपलक्षणम् । अष्टाचत्वारिंशदादिपरिमाणेन [व्र]तेन वा संपन्नः स्नायादसंपन्नोऽपि विद्यया । विद्या व्रतेन च, विद्येति 'सुपां सुलुक्' इत्यादिना तृतीयान्तम् । विद्यया व्रतेन चोभाभ्यां संपन्नः स्नायादिति चैके