नविधिः । तथा च भृग्वादिगोत्रिव्यतिरिक्तानां सर्वेषां मध्यमशिखामवशेष्यैव वपनम् । भृग्वादिगोत्रिणां तु मध्यमशिखाया वपने विकल्प इति ज्ञेयम् ।
ततः केशसंयमनादिकं वक्ष्यमाणचौलोक्तरीत्या कृत्वा सर्पिष्मन्तमोदनं नापिताय दत्त्वाऽऽचार्याय वरं दद्यात् ।
ततो ब्राह्मणभोजनं भूयसीदक्षिणादानं च विधाय कर्मसाद्गुण्याय विष्णुं संस्मृत्य कर्मेश्वरायार्पयेत् ।
अग्निगोदानो वा भवतीत्यस्मिन्पक्षे पूर्ववत्संकल्पप्रभृति त्रिवृदन्नहोमं पुण्याहादिवाचनान्तं कृत्वा वरदानब्राह्मणभोजनाद्येव कार्यं न तु वपनम् । एतस्य कालात्यये चौलवत्प्रायश्चित्तं कृत्वा कर्तव्य[त्व]मेव न तु चौलवत्प्रायश्चित्तेन चरितार्थता । एतस्योपनयनोत्तरभावित्वात् ।
इति संस्काररत्नमालायां काण्डव्रतोपाकरणोत्सर्जनगोदानप्रयोगः।
इत्योकोपाह्वश्रीमत्साग्निचिद्वाजपेयपौण्डरीकयाजिगणेशदीक्षि-
ततनूजभट्टगोपीनाथदीक्षितविरचितायां सत्याषाढ-
हिरण्यकेशिस्मार्तसंस्काररत्नमालायामष्टमं
प्रकरणम् ॥ ८॥
अथ नवमं प्रकरणम् ।
अथ बौधायनसूत्रानुसारेण ब्रह्मचारिव्रतलोपप्रायश्चित्तम् ।
पूर्वेद्युस्तद्दिने वा ब्रह्मचारी देशकालौ संकीर्त्य मम भिक्षाग्निकार्यलोपजनितदोषपरिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थं बौधायनो[१]क्तप्रायश्चित्ताज्यहोमपूर्वककृच्छ्रत्रयमितं प्रायश्चित्तमहमाचरिष्य इति संकल्पः ।
कृच्छ्रत्रयाचरणाशक्तौ तु, अमुकप्रत्याम्नायेनाहमाचरिष्य इति संकल्पवाक्य ऊहः । एवं शौचाचमनसंध्यावन्दनलोपशूद्रादिस्पर्शनकौपीनकटिसूत्रयज्ञोपवीतमेखलाजिनदण्डादित्यागदिवास्वापच्छत्रोष्णीषादिधारणपादुकाध्यारोहणोद्वर्तनानुलेपनाञ्जनाभ्यञ्जनजलक्रीडाद्यूतगीतनृत्यवाद्याद्यभिरतिपाखण्ड्यादिसंभाषणपर्युषितभोजनादिव्रतलोपे तत्तन्निमित्तानुसारेण संकल्प ऊहनीयः ।
तत उल्लेखनादिना स्थण्डिलसंस्कारं विधाय तत्र विण्नामानं श्रोत्रियागा
- ↑ घ. नोक्तं प्रा ।