पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३५७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[गोदानसंस्कारः]
३५३
संस्काररत्नमाला ।
(गोदानसंस्कारप्रयोगः )
 

 मनुरपि--

"केशान्तः षोडशे वर्षे ब्राह्मणस्य विधीयते ।
राजन्यबन्धोर्द्वाविंशे वैश्यस्य द्व्यधिके ततः" इति ॥

 राजन्यबन्धुः क्षत्रियः । द्व्यधिके चतुर्विंश इत्यर्थः ।

 याज्ञवल्क्योऽपि--"केशान्तश्चैव षोडशे" इति ।

 केशान्तो गोदानाख्यं कर्म गर्भादारभ्य षोडशे वर्षे ब्राह्मणस्य भवति । एतच्च द्वादशवार्षिके वेदव्रते बोद्धव्यम् । इतरस्मिन्पक्षे यथासंभवं द्रष्टव्यम् । राजन्यवैश्ययोस्तूपनयनकालवद्द्वाविंशे चतुर्विंशे वा द्रष्टव्यमिति विज्ञानेश्वरः । गोदानमिति कर्मनामधेयं तत्प्रख्यन्यायात् । एतच्च यथाशक्तिब्रह्मचर्यपक्षेऽपकृष्य समावर्तनात्प्रागेव कर्तव्यं न तु षोडशवर्षप्रतीक्षेति बोध्यम् ।

अथ प्रयोगः ।

 आचार्यो ब्रह्मचारिसहितः कृतनित्यक्रियो वक्ष्यमाणचौलोक्ततिथ्यादिकाले प्राङ्मुख उपविश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्यास्यामुकशर्मणो ब्रह्मचारिण आयुर्वर्चोभिवृद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं गोदानसंस्काराख्यं कर्म करिष्य इति संकल्प्य गणपतिपूजनादिनान्दीश्राद्धा[१]न्तयुक्तरीत्या कुर्यात् । अत्र केशिनः प्रीय[२]न्तामिति विशेषः, चौलधर्मत्वादेतस्य ।

 तत उल्लेखनादिविधिना स्थण्डिलसंस्कारादि विधाय तत्र सूर्यनामानं लौकिकमग्निं प्रतिष्ठाप्य प्रज्वाल्य ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादिप्राणायामान्तं कृत्वा गोदानहोमकर्मणि या यक्ष्यमाणा इत्यादि व्याहृत्यन्तमुक्त्वाऽङ्गहोमे वरुणमित्यादि । नात्र वैशेषिकहोमः । जयादिहोमा वैकल्पिकाः । व्याहृतिहोमवारुण्यादिहोमा अत्र नियताः । एवमिति चौलातिदेशात्संस्थाजपान्तं समानम् ।

 ततस्त्रिवृदन्नहोमं पुण्याहादिवाचनान्तं विधाय प्रजापतिः प्रीयतामिति वदेत् ।

 ततोऽग्नेः पश्चात्स्वस्थाने ब्रह्मचारिणमुपवेश्य स्वयं तद्दक्षिणत उपविश्याग्नेर्ब्रह्मचारिणो वोत्तरतो धृतानडुहगोमयं ब्रह्मचारिमातरं धृतानडुहगोमयं[३] यं कंचन ब्रह्मचारिणं वोपवेश्योष्णशीताभिरद्भिरुन्दनादिवपनान्तं वक्ष्यमाणचौलोक्तरीत्या कुर्यात् ।

 अत्रैतावान्विशेषः । चौले यथाचारं धृताभिः शिखाभिः सह मध्यमशिखाया अपि वापनम् । अथवा मध्यमशिखामवशेषयेत् । सशिखं वापयतीत्यशिखानां भृग्वादीनां शिखाधारणं विधातुमनुवादः । न तु सर्वेषां सशिखवप


  1. घ. द्धान्तं कृत्वोक्त ।
  2. ग. घ. यतामि ।
  3. क. यं क ।