पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३५६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३५२
[व्रतकालनिर्णयः]
भट्टगोपीनाथदीक्षितविरचिता--
(गोदानसंस्कारः)
 

 एतेषु व्रतेषु वक्ष्यमाणचौलकालनिर्णयवत्कालनिर्णयो द्रष्टव्यः,

"ग्रहनक्षत्रवारांशवर्गोदयनिरीक्षणम् ।
चौलवत्तु समाख्यातं सगोदानव्रतेषु च" इति श्रीधरोक्तेः ।

 व्रतेषु च व्रतेष्वपीत्यर्थः ।

 स्वकाले व्रतलोपे प्रायश्चित्तमाहात्रिः, व्रतलोपं प्रकृत्य--

"पिता भ्राताऽपरो वाऽपि प्राजापत्यत्रयं चरेत् " इति ।

 बटोरशक्तौ पित्रादीनामनुष्ठानं शक्तौ तु तेनैव कार्यम् ।

इति काण्डव्रतोत्सर्जनम् ।


अथ गोदानम् ।

 तच्च गृह्ये चौलातिदेशसौकर्यार्थमग्र उक्तमपि समावर्तनात्प्राक्कर्तव्यत्वादत्रैवोच्यते । न च गोदानातिदेश एव चौले कुतो न कृत इति तु न शङ्कनीयम् । गोदानसंस्कारस्य चौलोत्तरभावितयोत्तरसंस्कारस्य पूर्वसंस्कारे चौलेऽतिदेशासंभवात् ।

 तच्च गोदानं गृह्ये--

"एवं विहित षोडशे वर्षे गोदानकर्म सशिखं वापयति शिखामात्रावशिनष्टीत्येकेषामग्निगोदानो वा भवति गुरवे गां ददाति" इति ।

 यथा चूडाकर्मैवं विहितमुपनीतस्य षोडशे वर्षे गोदानकर्म स्यात् । तत्रैतावान्विशेषः । सशिखं शिखाभिः सह यथा स्यात्तथा शिरःस्थितान्केशान्वापयति मध्यमामपि शिखां नावशिनष्टीत्यर्थः । मध्यमां शिखामत्रावशिनष्टीत्येकेषां मतम् । अग्निकार्यमेव गोदानं यस्य सोऽग्निगोदानः । अग्निगोदानो वा कुमारो भवति । उपसमाधानादि पुण्याहवाचनान्तमग्निकार्यमेव वा भवतीत्यर्थः । गुरव आचार्याय गामुभयकल्पेऽप्यन्ते ददाति । न चाग्निगोदानो वा भवतीत्येतत्समीपे विहितत्वात्तत्कल्प एवैतद्दानमिति वाच्यम् । गोदानस्योभयकल्पेऽपि प्रवृत्तौ बाधकाभावेन समीपविधानरूपहेतुनैतत्कल्पाङ्गत्वनियमसाधनस्याप्रयोजकत्वात् । न चैवमग्निगोदानो वा भवतीत्येतस्मात्पूर्वमेव गुरवे गां ददातीति पठितव्यम् । उत्तरकल्पे त्वनुवृत्त्यैवैतत्प्राप्नोतीति वाच्यम् । अग्निगोदानो वा भवतीत्यनेन वपनस्येव गोदानस्यापि पूर्वं बाध एव प्रापित उत्तरकल्पेऽनुवृत्तेरेवासंभवात् । एतच्चोपनयनादूर्ध्वं षोडशे वर्षे कार्यम् । चौलवदस्मिन्नेव काल उपाकृत्य चरितव्यमिति ।