पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
(ब्रह्मचारिव्रतलोपप्रायश्चित्तम् )
३५५
संस्काररत्नमाला ।

रादाहृतं लौकिकमग्निं प्रतिष्ठाप्य प्रज्वाल्य ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादिप्राणायामान्तं कृत्वा ब्रह्मचारिव्रतलोपप्रायश्चित्तहोमकर्मणि या यक्ष्यमाणा इत्यादि प्रसाधनीदेव्यन्तं व्याहृत्यन्तं वोक्त्वा प्रधानहोमे--अग्निं वायुं सूर्यं प्रजापतिं चैकैकयाऽऽज्याहुत्या यक्ष्ये । अग्निमग्निं पृथिवीं महान्तं चैकैकयाऽऽज्या०, वायुं वायुमन्तरिक्षं महान्तं चैकैकयाऽऽज्याहुत्या० । सूर्यमादित्यं दिवं महान्तं चैकैकयाऽऽज्याहुत्या० । प्रजापतिं चन्द्रमसं नक्षत्राणि दिशो महान्तं चैकैकयाऽऽज्याहुत्या यक्ष्य इति सर्वत्र महान्तमित्यस्य स्थाने महदिति वा । अग्निं विश्ववेदसं विभावसुं शतक्रतुं चैकैकयाऽऽज्याहुत्या यक्ष्ये । अग्निं द्वाभ्यामाज्याहुतिभ्यां यक्ष्ये । अग्निं वायुं सूर्यं प्रजापतिं चैकैकयाऽऽज्याहुत्या यक्ष्य इत्युक्त्वा स्विष्टकृद्धोमे--अग्निं स्विष्टकृतं हुतशेषाज्याहुत्या यक्ष्य इत्यादि अङ्गहोमे--वरुणं द्वाभ्यामित्यादि वोक्त्वाऽन्वाधानोत्कीर्तितपक्षानुसारेण प्रसाधनीदेवीहोमान्तं व्याहृतिहोमान्तं वा कृत्वा प्रधानहोमं कुर्यात् ।

 व्य[१]स्तव्याहृतीनामग्निर्ऋषिः । समस्तव्याहृतीनां प्रजापतिर्ऋषिः । अग्निवायुसूर्यप्रजापतयः क्रमेण देवताः । गायत्र्युष्णिगनुष्टुब्बृहत्यः क्रमेण च्छन्दांसि । ब्रह्मचारिव्रतलोपप्रायश्चित्तप्रधानाज्यहोमे विनियोगः--

"ॐ भूः स्वाहा । अग्नय इदं० । ॐ भुवः स्वाहा । वायव इदं० । ॐ सुवः स्वाहा । सूर्यायेदं० ॐ भूर्भुवः सुवः स्वाहा । प्रजापतय इदं० ।

 भूरग्नय इत्यादिमन्त्रचतुष्टयस्य याज्ञिक्यो देवता उपनिषदः । मन्त्रोक्ता देवता यजूंषि । ब्रह्मचारिव्रतलोपप्रायश्चित्तप्रधानाज्यहोमे विनियोगः--

"ॐ भूरग्नये च० पृ० महते च स्वाहा । अग्नयेऽग्नये पृथिव्यै महते चेदं० । ॐ भुवो वायवे चा० ते च स्वाहा । वायवे वायवेऽन्तरिक्षाय महते चेदं० । ॐ सुवरादित्याय च दि० ते च स्वाहा । सूर्यायाऽऽदित्याय दिवे महते चेदं० । ॐ भूर्भुवः सुवश्चन्द्रमसे च नक्षत्रेभ्यश्च दिग्भ्यश्च महते च स्वाहा । प्रजापतये चन्द्रमसे नक्षत्रेभ्यो दिग्भ्यो महते चेदं०"

 पाहि नो अग्न इत्यादिमन्त्रचतुष्टयस्य याज्ञिक्यो देवता उपनिषद ऋ[२]षयः । प्रथमस्याग्निः । द्वितीयस्य विश्ववेदाः । तृतीयस्य विभावसुः । चतुर्थस्य शत


  1. घ. ङ. व्यस्ताना ।
  2. ख. ऋषिः ।