पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३४४
[काण्डव्रतोपाकरणम्]
भट्टगोपीनाथदीक्षितविरचिता-
( सर्वेषां तन्त्रेणोपाकरणप्रयोगः )
 

धाने । स्वायंभुवकाण्डव्रतोपाकरणप्रधानाज्यहोमे विनियोग इति विनियोगवाक्ये । अन्वाधानोत्कीर्तनानुसारेण सदसस्पतिहोमानन्तरं तत्पूर्वं वा स्वयंभुवे काण्डर्षये स्वाहेत्याहुतिः । स्वयंभुवे काण्डर्षय इदमिति त्यागः । अन्यत्सर्वं प्राजापत्यकाण्डव्रतोपाकरणवत् । स्वायंभुवे काण्डेऽधीत उत्सर्जनम् । स्वायंभुवकाण्डाध्ययनार्थं स्वीकृतस्य स्वायंभुवकाण्डव्रतस्योत्सर्जनं करिष्य इति संकल्पवा[१]क्ये । स्वायंभुवकाण्डव्रतोत्सर्जनहोमकर्मणीत्यन्वाधाने । स्वायंभुवकाण्डव्रतोत्सर्जनप्रधानाज्यहोमे विनियोग इति विनियोगवाक्ये । अचारिषमशकमराधीत्युपस्थानमन्त्रेषु । अन्यत्सर्वं स्वायंभुवकाण्डव्रतोपाकरणवत् । एतत्काण्डस्य पाक्षिकत्वं तु प्रागेवोक्तम् ।

 मातृदत्तोऽप्येवमाह-- "स्वायंभुवं काण्डं पञ्चममेके" इति ।

 केषांचिन्मते स्वायंभुवकाण्डं पञ्चमं पृथक् । केषांचिन्मते पृथङ्न भवतीत्यर्थः । अपृथक्त्वपक्षेऽन्त्ये वैश्वदेवकाण्डेऽन्तर्भावो ज्ञेयः ।

अथैतेषां तन्त्रेणोपाकरणप्रयोगः ।

 ब्रह्मचारिणा सहाऽऽचार्यः कृतनित्यक्रियः प्राङ्मुख उपविश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्यास्यामुकशर्मणो ब्रह्मचारिणो वेदाध्ययनाधिकारसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं प्राजापत्यसौम्याग्नेयवैश्वदेवाख्यकाण्डचतुष्टयव्रतोपाकरणं तन्त्रेण करिष्य इति संकल्प्य गणेशपूजनादिनान्दीश्राद्धान्तं कुर्यात् ।

 स्वायंभुवकाण्डस्यानन्तर्भावपक्षे प्राजापत्यसौम्याग्नेयवैश्वदेवस्वायंभुवाख्यकाण्डपञ्चकव्रतोपाकरणं तन्त्रेण करिष्य इत्येवं संकल्पः ।

 नान्दीश्राद्धोत्तरं ब्रह्मचारिणा वपनं स्नानं च कारयित्वा तस्मै नूतनकटिसूत्रकच्छोपवीताजिनोत्तरीयदण्डान्दत्त्वा पुराणान्यप्सु निक्षिपेदिति केचित् ।

 तत उल्लेखनादिविधिना स्थण्डिलसंस्कारं विधाय समुद्भवनामानं श्रोत्रियागारादाहृतं लौकिकमग्निं प्रतिष्ठाप्य प्रज्वाल्य ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा प्राजापत्यसौम्याग्नेयवैश्वदेवाख्यकाण्डचतुष्टयव्रतोपाकरणहोमकर्मणि या यक्ष्यमाणा इत्यादिव्याहृत्यन्तं प्रसाधनीदेवी[२]होमान्तं वोक्त्वा प्रधानहोमे सदसस्पतिं प्रजापतिं काण्डर्षिं सोमं काण्डर्षिमग्निं काण्डर्षिं विश्वान्देवान्काण्डर्षीश्चैकैकयाऽऽज्याहुत्या यक्ष्य इति प्रजापतिं


  1. क. वाक्यम् । स्वा ।
  2. घ. ङ. देव्यन्तं वो ।