पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[काण्डव्रतोपाकरणम्]
३४३
संस्काररत्नमाला ।
(वैश्वदेवस्वायंभुवकाण्डयोः प्रयोगः )
 

ण्डव्रतोपाकरणवत् । आग्नेयकाण्डेऽधीत उत्सर्जनम् । आग्नेयकाण्डाध्ययनार्थं स्वीकृतस्याऽऽग्नेयकाण्डव्रतस्योत्सर्जनं करिष्य इति संकल्पवाक्ये । आग्नेयकाण्डव्रतोत्सर्जनहोमकर्मणीत्यन्वाधाने । आग्नेयकाण्डव्रतोत्सर्जनप्रधानाज्यहोमे विनियोग इति विनियोगवाक्ये । अचारिषमशकमराधीत्युपस्थानमन्त्रेषु । अन्यत्सर्वमाग्नेयकाण्डव्रतोपाकरणवत् ।

इत्याग्नेयकाण्डव्रतम् ।

अथ वैश्वदेवकाण्डव्रतम् ।

 वैश्वदेवकाण्डाध्ययनाधिकारसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं वैश्वदेवकाण्डव्रतोपाकरणं करिष्य इति संकल्पवाक्ये । वैश्वदेवकाण्डव्रतोपाकरणहोमकर्मणीति सदसस्पतिमाज्याहुत्या[१] विश्वान्देवान्काण्डर्षीनाज्याहु[२]त्येति, विश्वान्देवान्काण्डर्षीनाज्याहुत्या सदसस्पतिमाज्याहुत्येति विपरीतं वेत्यन्वाधाने । वैश्वदेवकाण्डव्रतोपाकरणप्रधानाज्यहोमे विनियोग इति विनियोगवाक्ये । अन्वाधानोत्कीर्तनानुसारेण सदसस्पतिहोमानन्तरं तत्पूर्वं वा विश्वेभ्यो देवेभ्यः काण्डर्षिभ्यः स्वाहेत्याहुतिः । विश्वेभ्यो देवेभ्यः काण्डर्षिभ्य इदमिति त्यागः । अन्यत्सर्वं प्राजापत्यकाण्डव्रतोपाकरणवत् । वैश्वेदवकाण्डेऽधीत उत्सर्जनम् । वैश्वदेवकाण्डाध्ययनार्थं स्वीकृतस्य वैश्वदेवकाण्डव्रतस्योत्सर्जनं करिष्य इति संकल्पवाक्ये । वैश्वदेवकाण्डव्रतोत्सर्जनहोमकर्मणीत्यन्वाधाने वैश्वदेवकाण्डव्रतोत्सर्जनप्रधानाज्यहोमे विनियोग इति विनियोगवाक्ये । अचारिषमशकमराधीत्युपस्थानमन्त्रेषु । अन्यत्सर्वं वैश्वदेवकाण्डव्रतोपाकरणवत् ।

इति वैश्वदेवकाण्डव्रतम् ।

अथ स्वायंभुवकाण्डव्रतम् ।

 स्वायंभुवकाण्डाध्ययनाधिकारसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं स्वायंभुवकाण्डव्रतोपाकरणं करिष्य इति संकल्पवाक्ये । स्वायंभुवकाण्डव्रतोपाकरणहोमकर्मणीति सदसस्पतिमाज्याहुत्या[३] स्वयंभुवं काण्डर्षिमाज्याहु[४]त्येति, स्वयंभुवं काण्डर्षिमाज्याहुत्या सदसस्पतिमाज्याहुत्येति विपरीतं वेत्यन्वा


  1. क. त्या यक्ष्ये वि ।
  2. क. हुत्या यक्ष्य इति ।
  3. क. त्या यक्ष्ये स्व ।
  4. क. हुत्या यक्ष्य इति ।