पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३४६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३४२
[काण्डव्रतोपाकरणम्]
भट्टगोपीनाथदीक्षितविरचिता--
(सौम्याग्नेयकाण्डयोः प्रयोगः)
 

यदि जयादिहोमाः कृता भवेयुस्तदाऽत्रापि कार्याः । अचारिषमशकमराधीत्यूह उपस्थानमन्त्रेषु । अन्यत्समानम् ।

इति प्राजापत्यकाण्डव्रतम् ।


अथ सौम्यकाण्डव्रतम् ।

 सौम्यकाण्डाध्ययनाधिकारसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं सौम्यकाण्डव्रतोपाकरणं करिष्य इति संकल्पवाक्यम् । सौम्यकाण्डव्रतोपाकरणहोमकर्मणीति सदसस्पतिमाज्याहुत्या सोमं काण्डर्षिमाज्याहुत्येति सोमं काण्डर्षिमाज्याहुत्या सदसस्पतिमाज्याहुत्येति विपरीतं वेति चान्वाधाने सौम्यकाण्डव्रतोपाकरणप्रधानाज्यहोमे विनियोग इति विनियोगवाक्ये । अन्वाधानोत्कीर्तितपक्षानुसारेण सदसस्पतिहोमानन्तरं तत्पूर्वं वा सोमाय काण्डर्षये स्वाहेत्याहुतिः । सोमाय काण्डर्षय इदमिति त्यागः । व्रतग्रहणान्तं प्राजापत्यकाण्डव्रतोपाकरणवत् । सौम्यकाण्डेऽधीत उत्सर्जनम् । सौम्यकाण्डाध्ययनार्थं स्वीकृतस्य[१] सौम्यकाण्डव्रतस्योत्सर्जनं करिष्य इति संकल्पवाक्ये । सौम्यकाण्डव्रतोत्सर्जनहोमकर्मणीत्यन्वाधाने । सौम्यकाण्डव्रतोत्सर्जनप्रधानाज्यहोमे विनियोग इति विनियोगवाक्ये । अचारिषमशकमराधीत्युपस्थानमन्त्रेषु । अन्यत्सर्वं[२] सौम्यकाण्डव्रतोपाकरणवत् ।

इति सौम्यकाण्डव्रतम् ।

अथाऽऽग्नेयकाण्डव्रतम् ।

 आग्नेयकाण्डाध्ययनाधिकारसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थमाग्नेयकाण्डव्रतोपाकरणं करिष्य इति संकल्पवाक्ये । आग्नेयकाण्डव्रतोपाकरणहोमकर्मणीति सदसस्पतिमाज्याहुत्या[३]ऽग्निं काण्डर्षिमाज्याहु[४]त्येति, अग्निं काण्डर्षिमाज्याहुत्या सदसस्पतिमाज्याहुत्येति विपरीतं वेत्यन्वाधाने । आग्नेयकाण्डव्रतोपाकरणप्रधानाज्यहोमे विनियोग इति विनियोगवाक्ये । अन्वाधानोत्कीर्तनानुसारेण सदसस्पतिहोमानन्तरं तत्पूर्वं वाऽग्नये काण्डर्षये स्वाहेत्याहुतिः । अग्नये काण्डर्षय इदमिति त्यागः । अन्यत्सर्वं प्राजापत्यका


  1. क. स्य का ।
  2. घ. ङ. र्वे. प्राजापत्यका ।
  3. क. त्या यक्ष्येऽग्निं ।
  4. क. हुत्या यक्ष्य इति ।