पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३४५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[काण्डव्रतोपाकरणम्]
३४१
संस्काररत्नमाला ।
( प्राजापत्यकाण्डप्रयोगः )
 

करिष्य इति [१]संकल्प्योक्तरीत्या कुर्यात् । अत्र सविता प्रीयतामिति विशेषः । एवं सर्वेषु व्रतेषु ।

 अत्र ब्रह्मचारिण उपाकरणाङ्गत्वेन वपनं स्नानं च कारयित्वा तस्मै नूतनकटिसूत्रकच्छोपवीताजिनोत्तरीयदण्डांस्तूष्णीं दत्त्वा पुराणान्यप्सु निक्षिपेदिति केचित् ।

 तत उल्लेखनादिविधिना स्थण्डिलसंस्कारं विधाय समुद्भवनामानं श्रोत्रियागारादाहृतं लौकिकमग्निं प्रतिष्ठाप्य प्रज्वाल्य ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादिप्राणायामान्तं कृत्वा प्राजापत्यकाण्डव्रतोपाकरणहोमकर्मणि या यक्ष्यमाणा इत्यादिव्याहृत्यन्तं प्रसाधनीदेव्यन्तं वोक्त्वा प्रधानहोमे सदसस्पतिमाज्याहुत्या यक्ष्ये । प्रजापतिं काण्डर्षिमाज्याहुत्या य[२]क्ष्य इति वदेत् । अथवा प्रजापतिं काण्डर्षिमाज्याहुत्या सदसस्पतिमाज्याहुत्येति विपरीतम् ।

 ततोऽङ्गहोमे वरुणमित्यादि स्विष्टकृद्धोमेऽग्निं स्विष्टकृतमित्यादि[३] वाऽन्वाधानोत्कीर्तितपक्षानुसारेण व्याहृतिहोमान्तं प्रसाधनीदेवीहोमान्तं वा कृत्वा प्रधानहोमं कुर्यात् । सदसस्पति[४]मद्भुतमित्यस्य याज्ञिक्यो देवता उपनिषदः सदसस्पतिर्गायत्री । प्राजापत्यकाण्डव्रतोपाकरणप्रधा[५]नाज्यहोमे विनियोगः--"ॐ सदसस्पति० सिष स्वाहा । सदसस्पतय इदं० । ॐ प्रजापतये काण्डर्षये स्वाहा । प्रजापतये काण्डर्षय इदं०" विपरीतं वा । इत्यन्वाधानोत्कीर्तितपक्षानुसारेणाऽऽहुतिद्वयं हुत्वेमं मे वरुणेत्यादिहोमशेषं समापयेत् । जयादिहोमा वैकल्पिकाः । अत्रात्रग्रहणमुपाकरणे यदि जयाद्युपहोमोऽनुष्ठितस्तदोत्सर्जने कर्तव्य एव, तत्राभावेऽप्यत्राप्यभाव इत्येतदर्थम् ।

 अथ ब्रह्मचार्यग्ने व्रतपत इत्यादिभिरुपनयनोक्तरीत्या देवतोपस्थानं कृत्वा गुरवे वरं दद्यात् । नात्र त्रिवृदन्नहोमः ।

 तत आचार्यो ब्राह्मणभोजनं कृत्वा भूयसीं दक्षिणां च दत्त्वा कर्मसाद्गुण्याय विष्णुं स्मृत्वा कर्मेश्वरायार्पयेत् । अधीते काण्डे तस्यैवोत्सर्जनम् । उपाकरणवत्सर्वम् । तत्रैतावान्विशेषः । अस्यामुकशर्मणो ब्रह्मचारिणः प्राजापत्यकाण्डाध्ययनार्थं स्वीकृतस्य प्राजापत्यकाण्डव्रतस्योत्सर्जनं करिष्य इति संकल्पवाक्यम् । प्राजापत्यकाण्डव्रतोत्सर्ज[६]नहोमकर्मणीत्यन्वाधाने, प्राजापत्यकाण्डव्रतोत्सर्जनप्रधानाज्यहोमे विनियोग इति विनियोगवाक्ये । उपाकरणे


  1. ग. घ. कल्पोक्त ।
  2. क. ग. यक्ष्ये । अ ।
  3. क. दिनाऽन्वा ।
  4. क. तिमि ।
  5. घ. धानहो ।
  6. क. र्जने हो ।