पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[काण्डानामुपाकरणम्]
३४५
संस्काररत्नमाला ।
( तन्त्रेणोपकरणाप्रयोगः )
 

काण्डर्षिं सोमं काण्डर्षिमग्निं काण्डर्षिं विश्वान्देवान्काण्डर्षीन्सदस्पतिं चैकयाऽऽज्याहुत्या यक्ष्य इति विपरीतं वा । अङ्गहोमे वरुणं द्वाभ्यामित्यादि ।

 स्वायंभुवकाण्डस्यानन्तर्भावपक्षे प्राजापत्यसौम्याग्नेयवैश्वदेवस्वायंभुवाख्यकाण्डपञ्चकव्रतोपाकरणहोमकर्मणि या यक्ष्यमाणा इत्यादि व्याहृत्यन्तं प्रसाधनीदेव्यन्तं वोक्त्वा प्रधानहोमे सदसस्पतिं प्रजापतिं[१] काण्डर्षिं सोमं काण्डर्षिमग्निं काण्डर्षिं विश्वान्देवान्काण्डर्षीन्स्वयंभुवं काण्डर्षिं चैकैकयाऽऽज्याहुत्या यक्ष्य इति प्रजापतिं[२] काण्डर्षिं सोमं काण्डर्षिमग्निं काण्डर्षिं विश्वान्देवान्काण्डर्षीन्स्वयंभुवं काण्डर्षिं सदसस्पतिं चैकैकयाऽऽज्याहुत्या यक्ष्य इति विपरीतं वा । अङ्गहोमे वरु[३]णं द्वाभ्यामित्यादि । व्याहृतिहोमान्ते प्रसाधनीदेवीहोमान्ते वा प्रधानहोमः ।

 स यथा--सदसस्पतिमित्यस्य याज्ञि[४]क्य उपनिषदः सदसस्पतिर्गायत्री । काण्डचतुष्टयव्रतोपाकरणप्रधानाज्यहोमे विनियोगः । स्वायंभुवकाण्डस्यानन्तर्भावपक्षे काण्डपञ्चकव्रतोपाकरणप्रधानाज्यहोमे विनियोग इति विनियोगवाक्ये विशेषः । "ॐ सदसस्पति० सिष स्वाहा । सदसस्पतय इदं० । ॐ प्रजापतये काण्डर्षये स्वाहा । प्रजापतये काण्डर्षय इदं० । ॐ सोमाय काण्डर्षये स्वाहा । सोमाय काण्डर्षय इदं० । ॐ अग्नये काण्डर्षये स्वाहा । अग्नये काण्डर्षय इदं० । ॐ विश्वेभ्यो देवभ्यः काण्डर्षिभ्यः स्वाहा । विश्वेभ्यो देवेभ्यः काण्डर्षिभ्य इदं०[५]."

 स्वायंभुवकाण्डस्यानन्तर्भावपक्षे स्वायंभुवे काण्डर्षये स्वाहेति पष्ठ्याहुतिः । स्वयंभुवे काण्डर्षय इदं न ममेति त्यागः ।

 काण्डर्षिहोमानन्तरं वा सदसस्पतिहोमः । इति प्रधानहोमं कृत्वेमं मे वरुणेत्यादि सर्वं होमशेषं समापयेत् । जयादिहोमे विकल्पः । त्रिवृदन्नहोमो नात्र ।

 ततो ब्रह्मचारी, अग्ने व्रतपते व्रतं चरिष्यामीत्यादिभिरुपस्थाय गुरवे वरं दद्यात् ।

 ततो ब्राह्मणभोजनं भूयसीदक्षिणादानं(?) च विधाय कर्मसाद्गुण्याय विष्णुं संस्मृत्य कर्मेश्वरायार्पयेत् ।

इति तन्त्रेणोपाकरणप्रयोगः ।


४४
 
  1. क. ति सो ।
  2. क. ति सो ।
  3. घ. ङ. रुणमि ।
  4. घ. ङ. ज्ञिक्यो देवता उ ।
  5. घ. ङ. दं० । स्वयंभुवे काण्डर्षये स्वाहा । स्वयंभुवे काण्डर्षय इदं० । स्वा ।