पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२७०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२६६
[संस्कारान्नभोजनप्रायश्चित्तम्]
भट्टगोपीनाथदीक्षितविरचिता-

 नखैर्विशैरित्यर्थः । पञ्चाशद्भिः सुतलाभ इत्यर्थः ।

अशीत्या गतराज्याप्तिर्विशत्या लभते धनम् ॥
अष्टोत्तरशतेनापि असाध्येन तु मेलयेत् ।
कौमारिका चेष्टदेवं कौमार्या ईरितो विधिः" इति ।

 अष्टोत्तरशतसंख्यैर्मोटनैरसाध्येन कार्येणापि मेलयेत् । असाध्यमपि कार्यं साधयेदित्यर्थः । ([१]अष्टोत्तरशतेनाष्टोत्तरशतसंख्यमोटनैः साधकेनाभीष्टदेवं मेलयेत् । साधकस्याभीष्टदेवो भवेदित्यर्थो वा । कौमारिका चाष्टोत्तरशतमोटनानि कुर्यात् । उत्तमपतिलाभार्थमिति शेषः । कौमारी योगेश्वरी तत्संबन्ध्येवायं विधिरित्यर्थः । अथवा कौमार्याः कुमार्येव कौमारी कुमारीप्रधानोऽयमीरितो विधिरित्यर्थः । कुमारीं विनाऽयं विधिर्नैव भवतीति तात्पर्यार्थः । ) कौमारिका चेष्टदेवमुद्दिश्योत्तमपतिलाभार्थमिमं विधिं कुर्यात् । अयं विधिः कौमार्या एवेरितः, कुमारिकां विना विधिर्न भवतीत्यर्थः । कौमारी योगेश्वरी तन्माहात्म्ये तस्यास्तथैव वर्णितत्वात् । तदुद्देशेनायं विधिर्भवतीत्यप्यर्थः । एवमन्येष्वपि संस्कारेष्वाचारश्चेत्कार्यम् ।

इति संस्काररत्नमालायामुपनयनप्रकरणम् ।

इत्योकोपाह्वश्रीमद्गणेशदीक्षिततनूजभट्टगोपीनाथदीक्षितविरचि-
तायां सत्याषाढहिरण्यकेशिस्मार्तसंस्काररत्नमा-
लायां चतुर्थं प्रकरणम् ॥ ४ ॥

अथ पञ्चमं प्रकरणम् ।

अथात्र प्रसङ्गात्संस्कारान्नभोजनप्रायश्चित्तमुच्यते ।

 तत्र प्रायश्चित्तविवेकेऽङ्गिराः--

"जन्मप्रभृतिसंस्कारे वालस्यान्नस्य भोजने ।
असपिण्डैर्न भोक्तव्यं श्मशानान्ते विशेषतः" इति ॥

व्यासः--

"निवृत्ते चौलहोमे तु संस्कारे तु द्विजोत्तमः ।
चरेत्सांतपनं भुक्ता जातकर्मणि चैव हि ॥


  1. धनुश्चिह्नान्तर्गतो ग्रन्थः ख. घ. ङ. पुस्तकेषु नास्ति ।