पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[उपनयनप्रकरणम्]]
२६५
संस्काररत्नमाला ।
( मोटनविधिः )
 

तत्कर्तृहस्ते दद्यात् । स च भार्यायै तत्सूत्रं प्रदर्श्य वस्त्रादिधनपेटिकायां संस्थापयेत् ।

 ततोऽग्निं विसृज्य ताः शाखास्तत्स्नानजलं च गृहस्योपरि शुद्धदेशे निक्षिप्याङ्गणवितानस्येशानकोणे विमोचनं कुर्यात् । मुख्यमण्डपसत्त्वे तु देवतापूजनमावाहनक्रमेण तत्र तत्र गत्वा कार्यम् ।

 ततो यथासंभवं ब्राह्मणभोजनं कृत्वा नानानामगोत्रेभ्यो ब्राह्मणेभ्यो गन्धादिपूजनपूर्वकं भूयसीं दक्षिणां दत्त्वोपनयनकर्मणः साङ्गतासिद्ध्यर्थं कुलमान्यायान्यस्मै वा मान्याय गां तत्प्रतिनिधिभूतं द्रव्यं वा दद्यात् । ततो विष्णुं संस्मृत्य कर्मेश्वरायार्पयेत् ।

 ततो ब्रह्मचारी गुरुकुले वसेद्गुरोरनुकूलां सेवां च कुर्यात् । प्रागुक्तानि गृह्योक्तानि धर्मोक्तानि च व्रतानि यथाशक्त्याचरेत् । लौकिकाग्नावग्निकार्यं कुर्याद्यावत्समावर्तनम् ।

 यदि मोटनाचारश्चेत्सोऽपि कार्यः । तच्च मोटनमुक्तं मेरुतत्रे--

"अथ मोटनकं वक्ष्ये देवाविर्भावकारणम् ।
पाकक्रिया प्रकर्तव्या चतुर्भक्ष्यसमन्विता ॥
भार्यया साधकेन्द्रस्य पातिव्रत्यादियुक्तया ।
अप्रसूताः स्त्रियः पञ्च आहूय सकुमारिकाः ॥
अलंकृताः पवित्रास्ता एकपङ्क्त्योपवेशयेत् ।
तत्राऽऽदौ विघ्नपस्थानमन्ने तु बटुकस्य च ॥

 चकारात्कुलदेवतायाः ।

ताः संपूज्य महापात्रे पवित्रे तत्र चार्पयेत् ।
क्रमाद्द्विगुणमानेन मध्वाज्ये च सितादधि ॥
दुग्धं च निक्षिपेत्तत्र नैवेद्यं तत्र निक्षिपेत् ।
कुमारिकाया हस्तेन मन्थयेयुः स्त्रियश्च तत् ॥
स्त्रीभिस्तस्मिन्मथ्यमाने देवावेशः प्रजायते ।
देवावेशे जायमाने सुगन्धो वाति मारुतः ॥
सर्वं मनोगतं वक्ति देवताऽऽशु प्रसीदति ।
सिध्यन्ति सर्वकार्याणि मोटनानां शतेन च ॥
नखैर्भवेद्विवाहस्तु पञ्चाशद्भिः सुतस्तथा ।


३४