सामग्री पर जाएँ

पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२७१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[संस्कारान्नभोजनप्रायश्चित्तम्]
२६७
संस्काररत्नमाला ।

अतोऽन्येषु तु भुक्त्वाऽन्नं संस्कारेषु द्विजोत्तमः ।
नियोगादुपवासाच्च शुध्यते निन्द्यभोजने" इति ॥

नियोगः प्राणायामः ।

 धौम्यः--

"ब्रह्मौदने च सोमे च सीमन्तोन्नयने तथा ।
जातश्राद्धे नवश्राद्धे भुक्त्वा चान्द्रायणं चरेत्" इति ॥

आपस्तम्बः--

"यज्ञिया[]न्नं नवश्रा[]द्धं संग्रहे चैव भोजनम् ।
स्त्रीणां प्रथमगर्भे च द्विजश्चान्द्रायणं चरेत्" इति ।

 यज्ञियान्नं यज्ञसंबन्ध्यन्नम् । यज्ञसंबन्ध्यन्नस्याभोज्यताऽग्नीषोमीयसमाप्तिपर्यन्तम्, अग्नीषोमीयवपाहोमपर्यन्तं वा राजक्रयपर्यन्तं वा । आरम्भसमय एव द्रव्यनिर्देशो यजमानेन कृतश्चेत्तदा न दोषः ।

 एतत्सर्वमुक्तं धर्मसूत्रे--

  "अग्नीषोमीयसंस्थायामेव दीक्षितस्य भोक्तव्यं हुतायां वा वपायां क्रीते वा राजनि यज्ञार्थं वा निर्दिष्टे शेषाद्भुञ्जीरन्निति ब्राह्मणम्" इति ।

 संस्था समाप्तिः । क्रीते वा राजनीतिपक्ष आपत्तौ ।

 अग्निष्टोमयाजमानसूत्रे--

 "यदस्य यज्ञार्थं तन्निरादिश्य शेषाद्भुञ्जतेऽनिरादिश्य न भुञ्जते प्रागग्नीषोमीयात्" इति ।

 अस्य दीक्षितस्य । पूर्वत्र तस्यैवोपक्रमात् । यद्द्रव्यं यज्ञार्थं कल्पितं तन्निरादिश्य यज्ञार्थमेतन्मध्य एतावदिति निरादिश्य । अन्तर्भावितण्यर्थोऽत्र । तेन निरादेश्य निरादेशं निरादेशनं निर्देशनमिति यावत् । तद्यजमानं कारयित्वा शेषाद्ब्राह्मणा भुञ्जत इत्यर्थः । अन्यत्स्पष्टम् । संग्रहो विवाहः ।

यत्तु--

"सर्वेष्वपि च संस्कारेष्वन्नं भुङ्क्ते द्विजो यदि ।
नियोगमुपवासं च प्रायश्चित्तं समाचरेत्" ।

 इति चूडादिसर्वसंस्कारेषु नियोगोपवासविधानं तदापद्विषयं बोध्यम् ।


  1. ख. यान्ने न ।
  2. ख. श्राद्धे सं ।