पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२५७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[परिवेषे शाकादीनां स्थानानि]
२५३
संस्काररत्नमाला ।
( बलिदानाकरणे, भोजने परस्परं स्पर्शे च प्रायश्चितम्, )
 

विनियोगः । "ॐ वयः सु० बद्धान्" इति चक्षुषी निमृजीत । अङ्गुष्ठेन दक्षिणमनामिकयोत्तरम् ।

 नमो रुद्रायेत्यस्य याज्ञिक्यो देव० पदो रुद्रविष्णू यजुः । उपस्थाने विनियोगः-- "ॐ नमो रु० पाहि" इति रुद्रविष्णू उपतिष्ठते ।

 त्वमग्ने द्युभिरित्यस्य याज्ञि[१]क्य उपनिषदोऽग्निस्त्रिष्टुप् । अन्नपाचनार्थमग्न्युपस्थाने विनियोगः--"ॐ त्वमग्ने द्युभिः शुचिः" इति जाठरमग्निमुपतिष्ठते ।

 शिवेन म इत्यस्य याज्ञि[२]क्य उपनिषदोऽग्निस्त्रिष्टुप् । प्रार्थने विनियोगः--"ॐ शिवेन०" इति प्रार्थयेत्[३]

 परिवेषणे शाकादीनां स्थानान्याह स्मृतिरत्नाकरे जातूकर्ण्यः--

"शाकादि पुरतः स्थाप्यं भक्ष्यं भोज्यं च वामतः ।
संस्थाप्य ओदनो मध्ये दक्षिणे घृतपायसम् ॥
ओदनस्यापरार्धे तु दद्यादुपरि सूपकम्" इति ।

 सूपकं सूपम् । स्वार्थे कः ।

 बलिदानाकरण[४]प्रायश्चित्तमाह जातूकर्ण्यः--

"अकृत्वा यश्चित्रबलिं भुङ्क्ते विप्रस्त्वनापदि ।
प्राणायामत्रयं कृत्वा गायत्र्यष्टशतं जपेत्" इति[५]
भोजनादौ बलिं मुक्तं समुद्धार्यैव भोजनम् ।
अनुद्धार्य तु यो भुङ्क्ते प्राणायामाष्टकं चरेत्" इति[६]

 समुद्धार्येति णिच्प्रयोगादन्यकर्तृकमुद्धरणम् । न स्वकर्तृकमिति गम्यते ।

 अपोशा(आपोश)नाकरणप्रायश्चित्तमाह संवर्तः[७]--

"अपोशा(आपोश)नमकृत्वा तु भुङ्क्ते योऽनापदि द्विजः ।
भुञ्जानस्तु यदा ब्रूयाद्गायत्र्यष्टशतं जपेत्" इति ।

 अष्टशतमष्टोत्तरशतम् ।

 भोजने परस्परं स्पर्शे स्मृतिसारे--

"यदि भोजनकाले तु ब्राह्मणो ब्राह्मणं स्पृशेत् ।
त्यक्त्वा तदन्नमुत्थाय प्राणायामत्रयं चरेत्" इति ॥


  1. ग. घ. ङ. ज्ञिक्यो देवता उ ।
  2. ग. घ. ङ. ज्ञिक्यो देवता उ ।
  3. क. ख. त् । बलि ।
  4. अस्मादनन्तरं बल्युद्धरणाकरणेत्यधिकं पठितव्यं तथा सति भोजनादावित्यादिगम्यत इत्यन्तो ग्रन्थः संगच्छते । स ग्रन्थोऽधिक इत्येव वा बोध्यम् ।
  5. क. स. ति । अ ।
  6. क. ख. ति । आपो ।
  7. ख. र्तः । आपो ।