पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२५८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२५४
[उपनयनप्रकरणम्]
भट्टगोपीनाथदीक्षितविरचिता--
( यज्ञोपवीतं विना भोजने प्रायश्चित्तम् )
 

 प्रयोगदर्पणे स्मृत्यन्तरे तु--

"यदि भोजनकाले तु ब्राह्मणो ब्राह्मणं स्पृशेत् ।
तदन्नमत्यजन्भुक्त्वा गायत्र्यष्टशतं जपेत्" इत्युक्तम् ।

 यज्ञोपवीतं विना भोजने लघुहारीतः--

"विना यज्ञोपवीतेन भुङ्क्ते तु ब्राह्मणो यदि ।
स्नानं कृत्वा जपं चैव उपवासेन शुध्यति" इति ।

 जपो गायत्र्याः । इदं च ज्ञानतः ।

 अज्ञानतस्तु--

"ब्रह्मसूत्रं विना भुङ्क्ते ब्राह्मणो यद्यकामतः ।
गायत्र्यष्टसहस्रेण प्राणायामेन शुध्यति" ।

 इति संवर्तोक्तं द्रष्टव्यम् । अष्टसहस्रमष्टोत्तरसहस्रम् ।

 ([१]स्मृत्यन्तरे--)

"नीलीक्षेत्रोत्पन्नान्नादिभुक्तौ चान्द्रम् । नीलीं धृत्वा
यदन्नादि दीयते तत्र दातुर्भोक्तुश्च सांतपनम् ।

 यत्तु शङ्खः--

"नीलीवस्त्रं परिधाय भुक्त्वा स्नानार्हको भवेत्" इति ।

 तदज्ञानविषयम् ।

 स्मृत्यन्तरे--

"कम्बले पट्टसूत्रे च नीलीदोषो न विद्यते" इति ।

 स्मृत्यन्तरे--

 भुक्त्वाऽनाचम्योत्थाने सद्यः स्नानम्, अस्थिदूषितान्नभक्षणे घृतप्राशनं, दन्तपाते च, एवं मुखे रक्तादिदुष्टे त्रिरात्रं, दीपोच्छिष्टमभ्यङ्गोच्छिष्टं च तैलं भुक्त्वा नक्तमाचरेत्" इति ।

 भोजनकाले रेतोमूत्रपुरीषोत्सर्गे ब्रह्मपुराणे--

"रेतोमूत्रपुरीषाणामुत्सर्गश्चेत्प्रमादतः ।
तदादौ तु प्रकर्तव्या तेन शुद्धिर्मुदाऽम्बुभिः ।
पश्चादाचम्य तु जले जप्तव्यमघमर्षणम्" इति ।

 एतदनिगीर्णग्रासविषयम् ।


  1. धनुश्चिह्नान्तर्गतो ग्रन्थः क. ग. पुस्तकातिरिक्तपुस्तकेषु नास्ति ।