ततः पुनराचम्य,
अङ्गुष्ठमात्रः पुरुष इत्यस्य याज्ञिक्यो देवता उपनिषदः परमात्माऽनुष्टुप् । दक्षिणपादाङ्गुष्ठे दक्षिणपाणिजलनिःस्रावणे विनियोगः--"ॐ अङ्गुष्ठमात्रः पु० भुक्" इति दक्षिणपादाङ्गुष्ठे दक्षिणं पाणिं निःस्रावयति ।
श्रद्धायां प्राणे निविश्येत्यादिमन्त्राणां याज्ञि[१]क्य उपनिषद आत्मा यजुः । हुतानुमन्त्रणे विनियोगः-- "ॐ श्रद्धायां प्राणे निविश्यामृत हुतम् । प्राणमन्नेनाऽऽप्यायस्व । श्रद्धायाम० समानमन्नेनाऽऽप्यायस्व" इत्यूर्ध्वहस्तो हुतानुमन्त्रणं कुर्यात् ।
ब्रह्मणि म इत्यस्य याज्ञि[२]क्य उपनिषद आत्मा यजुः । स्वस्मिन्नात्मयोजने विनियोगः-- "ॐ ब्रह्मणि म आत्माऽमृतत्वाय" इति स्वस्मिन्नात्मानं योजयेत्[३] । स्वं हृदयम् ।
एतावत्कर्तुमशक्तावन्नाभिमन्त्रणान्तं कृत्वा,
"ॐ अमृतोप० मसि" इत्युदकं पीत्वा,
"ॐ प्राणाय स्वाहा । ॐ अपानाय स्वाहा । ॐ व्यानाय स्वाहा । ॐ उदानाय स्वाहा । ॐ समानाय स्वाहा" इत्येतैरेव मन्त्रैः पूर्ववदाहुतीर्हुत्वा बलिनिष्काशनादि सर्वं पूर्ववत् । भोजनान्तेऽमृतापिधानमसीत्युदकपानमेव नान्यत्समन्त्रकं कर्मजातम् । इत्यशक्तौ विधिः ।
ततो वाङ्म इत्यादिमन्त्राणां याज्ञि[४]क्य उपनिषदो वागादयो यजुः । वागाद्यालम्भे विनियोगः---"ॐ वाङ्म आसन्" इति मुखमालभते । "ॐ नसोः प्राणः" इति नासिके युगपत्सकृदेव मन्त्रो द्विवचनलिङ्गात् । "ॐ अक्ष्योश्चक्षुः" इति चक्षुषी तथैव । "ॐ कर्णयोः श्रोत्रम्" इति श्रोत्रे । "ॐ बाह्वोर्बलम्" इति बाहू । 'ऊरुवोरोजः' इत्यूरू[५] । बाह्वन्तानां दक्षिणहस्तेन क्रमेण । ऊर्वोस्तु वामहस्तेनैव । मुखादीनि यथायथं दक्षिणवामहस्ताभ्याम् । एतेष्वपि द्विवचनलिङ्गात्सकृदेव मन्त्रः । अरिष्टा० इति सर्वाण्यङ्गानि । सकृदेव मन्त्रः ।
वयः सुपर्णा इत्यस्य याज्ञि[६]क्य उपनिषदः सुपर्णास्त्रिष्टुप् । चक्षुर्निमार्जने