पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२४६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२४२
[मध्याह्नसंध्याप्रयोगः
भट्टगोपीनाथदीक्षितविरचिता--
( संकल्पमार्जनादि )
 

देशकालौ संकीर्त्य श्रीपरमेश्वरप्रीत्यर्थं मध्याह्नसंध्योपास्तिं करिष्य इति संकल्पं कृत्वा--

 आपो हि ष्ठेति मन्त्रत्रयस्याग्निर्विश्वे देवा वाऽऽपो गायत्री । मार्जने विनियोगः-- "ॐ आपो हि ष्ठा० च नः" इति कुशोदकैर्मध्यमानामिकाङ्गुष्ठैर्ऋगन्तेऽर्धर्चान्ते पादान्ते वा मार्जनं कुर्यात् ।

 पादान्ते मार्जनपक्षे "तस्मा अरं गमाम वः" इत्यन्तैः पादैः शिरस्यंसयोश्च प्रतिपादं प्रोक्ष्य, "ॐ यस्य क्षयाय जिन्वथ" "आपो जनयथा च नः" । इति द्वाभ्यां कण्ठाधः प्रोक्षेदिति विशेषः ।

 अथवा-- 'ॐ आपो हि ष्ठा मयोभुवः' शिरसि । 'ता न ऊर्जे दधातन' पादयोः । 'महे रणाय चक्षसे' हृदि । 'यो वः शिवतमो रसः' हृदि । तस्य भाजयतेह नः' पादयोः । 'उशतीरिव मातरः' शिरसि । 'तस्मा अरं गमाम वः' शिरसि । 'यस्य क्षयाय जिन्वथ' हृदि । आपो जनयथा च नः' पादयोः । इति मार्जनक्रमः ।

 तत आपो वा इदमित्यनुवाकस्य याज्ञिक्यो देवता उपनिषद आपो यजुः । सर्वात्मकत्वेनावभिध्याने विनियोगः-- "ॐ आपो वा इद राप ॐ" इति सर्वात्मकत्वेनापोऽभिध्यायेत् ।

 तत आपः पुनन्त्वित्यस्य याज्ञिक्यो देवता उपनिषद ऋषयः । आपः पृथिवी ब्रह्मणस्पतिर्ब्रह्म च देवताऽष्टपदा, अष्टिश्छन्दः । उदक[१]प्राशने विनियोगः-- "ॐ आपः पुनन्तु पृ० ग्रह स्वाहा" इत्युदकं पिबति ।

 ततो द्विराचम्य पुनर्मार्जनं कुर्यात् । प्रणवस्य परब्रह्मर्षिः । अग्निर्देवता गायत्री छन्दः । व्यस्तसमस्तव्याहृतीनां प्रजापतिर्ऋषिः । अग्निवायुसूर्यप्रजापतयो देवताः । गायत्र्युष्णिगनुष्टुब्बृहत्यश्छन्दांसि । गायत्र्या विश्वामित्र ऋषिः । सविता देवता गायत्री छन्दः । दधिक्राव्ण इत्यस्य विश्वे देवा दधिक्रावाऽनुष्टुप् । आपो हि ष्ठेति मन्त्रत्रयस्याग्निर्विश्वे देवा वाऽऽपो गायत्री । यच्चिद्धि त इति मन्त्रत्रयस्य विश्वे देवा ऋषयः । वरुणो देवता प्रथमस्य गायत्री छन्दः । द्वितीयतृतीययोस्त्रिष्टुप् । हिरण्यवर्णा इति मन्त्रचतुष्टयस्याग्निरापस्त्रिष्टुप् । पवमानानुवाकमन्त्राणां प्रजापतिर्ऋषिः पवमानसुवर्जनादयो लिङ्गोक्ता देवताः । गायत्र्यनुष्टुप्त्रिष्टुबिति च्छन्दांसि ।


  1. क. कपाने ।