पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[मध्याह्नसंध्याप्रयोगः]
२४३
संस्काररत्नमाला ।
( पापपुरुषोत्सारणाद्यासनविध्यन्तम् )
 

व्यस्तसमस्तव्याहृतीनां पूर्ववत्पुनर्ऋष्याद्युक्त्वा द्रुपदेत्यस्य विश्वे देवा आपोऽनुष्टुप् । सर्वेषां मार्जने विनियोगः । ओमिति प्रणवान्ते मार्जयित्वा व्याहृत्यन्ते द्वितीयं मार्जनं कृत्वा गायत्र्यन्ते तृतीयमवशिष्टमन्त्रान्ते चतुर्थमिति मार्जयेत् । प्रतिमन्त्रं मार्जनमिति केचित् ।

 ततो गोकर्णवत्कृते दक्षिणे हस्ते जलमादाय तत्र श्वासं त्यजन्नासिकाग्रे पापपुरुषं स्मरन्,

 द्रुपदेत्यस्य विश्वे देवा आपोऽनुष्टुप् । पापपुरुषोत्सारणे विनियोगः-- "ॐ द्रुपदादिव० तु मैनसः" इत्यनेन पापपुरुषमुत्सार्य तज्जलमनवलोकयन्स्वस्य वामभागे भूमावेव क्षिपेत् ।

 तत उत्थाय सूर्याभिमुख आदित्यं रुद्ररूपां सावित्र्यभिधां संध्यां चाभेदेनाभिध्यायन्हस्ताभ्यां जलमादाय,

 समस्तव्याहृतीनां प्रजापतिः प्रजापतिर्बृहती । गायत्र्या विश्वामित्रः सविता गायत्री । जलाभिमन्त्रणे विनियोगः-- "ॐ भूर्भुवः सुवः । ॐ तत्सवितुर्वरेण्यं० चोदयात्" इति तज्जलमभिमन्त्र्य दक्षिणनासापुटेन तत्राऽऽदित्यमण्डलस्थं तेजः समागतं विभाव्य व्याहृतीनां गायत्र्याश्चर्ष्यादि[१]कं पूर्ववत्स्मृत्वाऽर्घ्यदाने विनियोग इति विनियोगं च स्मृत्वा समस्तव्याहृतिसहितां गायत्रीं संततामुक्त्वा सवित्रे सावित्र्या इदमर्घ्यं न ममेति सूर्याभिमुख ऊर्ध्वं जलमञ्जलिनोत्क्षिपञ्जलेऽर्घ्यं दद्यात् ।

 षोडशाक्षरस्य शिरोमन्त्रस्य याज्ञिक्यो देवता उपनिषदोऽवादयो यजुः । रक्षोपहननार्थं क्षिप्तस्य ज्योतिषः पुनः स्वस्थाने स्थापने विनियोगः-- "ओमापो ज्यो० सुवरोम्" इति तत्तेजो वामनासापुटेनाऽऽकृष्य स्वस्थान आगतं विभावयेत् ।

 एवं पुनर्जलग्रहणादि ज्योतिषः स्वस्थानस्थापनान्तं द्विवारं कृत्वाऽऽत्मानं प्रदक्षिणीकुर्वन्नसावादित्यो ब्रह्मेत्यात्मानं परिषिच्याऽऽसीनो[२]ऽप उपस्पृशेत् ।

 तत उपविश्य द्विराचम्य प्राणानायम्यापः स्पृष्ट्वा--

 "ॐ अपक्रामन्तु भूता० समारभे" इति भूतान्युत्सार्य दर्भैरुदकेनाऽऽसनदेशं प्रोक्ष्य तत्र दर्भाद्यासनमास्तीर्य--

 समस्तव्याहृतीनां प्रजापतिः प्रजापतिर्बृहती । पृथ्वीत्यस्य मन्त्रस्य मेरुपृष्ठ[३] ऋषिः कूर्मपृष्ठं देवता सुतलं छन्दः । आसनोपवेशने विनियोगः[४]-- "ॐ भूर्भुवः


  1. क. दि पू ।
  2. ग. घ. ङ. नोऽपः स्पृ ।
  3. क. ख. ष्टमृषिः ।
  4. ख. ग. घ. ड. गः– पृ ।