पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२४५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[मध्याह्नसंध्योपासनप्रयोगः]
२४१
संस्काररत्नमाला ।
( आचमनं प्राणायामः )
 

 इति स्मृतिरत्नावल्याद्युक्तेश्च[१]

 संध्यायामन्यथाकरणे स्मार्तप्रायश्चित्तकुतूहले संवर्तः--

"स्वरमात्राविहीनं तु पदाक्षरविवर्जितम् ।
न्यूनाधिकं वा कृत्वा तु आभिर्गीर्भिरितीरयेत्" इति ॥

अथ क्रमप्राप्तत्वादादौ मध्याह्नसंध्योपासनप्रयोगः ।

 शुचौ देशे दर्भानास्तीर्य तूष्णीमेव तेषु प्राङ्मुख उपविश्य कुशपाणिर्गायत्र्यास्त्रिभिः पादैरापो हि ष्ठादिभिस्त्रिभिर्मन्त्रैर्वा तूष्णीं वा त्रिराचम्य सोदकेन दक्षिणेन पाणिना त्रिर्द्विर्वोष्ठावलोमकौ परिमृज्य द्विः सकृद्वोष्ठावुपस्पृश्य सव्यं पाणिं पादौ शिरश्च प्रोक्ष्य चक्षुषी नासिके श्रोत्रे चाऽऽलभ्य प्रत्यालम्भमप उपस्पृशेदित्येवं पूर्ववत्त्रिराचम्य द्विरोष्ठौ परिमृज्य सदुपस्पृश्य सव्यं पाणिं पादौ प्रोक्ष्य शिरश्चक्षुषी नासिके श्रोत्रे हृदयमालभ्य प्रत्यालम्भमप उपस्पृशेदित्येवं वा द्विवारमाचम्य,--

 प्रणवस्य परब्रह्म ऋषिः । अग्निर्देवता गायत्री छन्दः । सप्तानां व्याहृतीनां याज्ञिक्यो देवता उपनिषद ऋ[२]षयः । अग्निर्वायुः सूर्यो बृहस्पतिर्वरुण इन्द्रो विश्वे देवा इति क्रमेण देवताः । गायत्र्युष्णिगनुष्टुब्बृहती पङ्क्तिस्त्रिष्टुब्जगतीति क्रमेण च्छन्दांसि । गायत्र्या अग्निर्विश्वामित्रश्चर्षिः सविता देवता गायत्री छन्दः, शिरोमन्त्रस्य याज्ञिक्यो देवता उपनिषद ऋ[३]षयः । अबादयो देवता यजुश्छन्दः सर्वेषां प्राणायामे विनियोगः--"ॐ भूः, ॐ भुवः, ॐ सुवः,० भूर्भुवः सुवरोम्" इति ब्रह्मविष्णुशिवान्क्रमेण ध्यायन्पूरककुम्भकरेचकक्रमेण त्रिरभ्यसेत् ।

 अथवा कुम्भकेनैव त्रिरभ्यसेत् ।

 ॐ तद्ब्रह्मेत्यस्य पुरोर्नम इत्यन्तस्य याज्ञिक्यो देवता उपनिषदो ब्रह्मयजुः प्राणायामे विनियोगः-- "ॐ तद्ब्रह्म । ॐ तद्वायुः० ॐ तत्पुरोनमः" इत्येतेन वा प्राणायामं कुर्यात् । इति प्राणायामत्रयं कृत्वा संध्यां ध्यायेत् । मध्याह्नसंध्यां युवतिं श्वेतां श्वेतवस्त्रां श्वेतगन्धानुलेपनां त्रिनेत्रां वरशूलपरश्वभयधारिणीं वृषवाहनां रुद्ररूपिणीं सावित्रीं ध्यायामीति सूर्याभेदेन ध्यात्वा


३१
 
  1. क. श्च । अं ।
  2. क. ग. घ. ङ. ऋषिः ।
  3. ग. घ. ङ. ऋषिः ।