कर्मसमाप्तिपर्यन्तं सायंप्रातः सायमेव वाऽग्निकार्यसंज्ञकं समिदभ्याधानं कुर्यात् । तदनन्तरं लौकिकाग्नौ । तत्प्रयोगस्त्वग्रे वक्ष्यते ।
"जाते ब्रह्मोपदेशे तु कर्म संध्यादिकं चरेत्" |
इति जैमिनिवचनेनोपदेशोत्तरं संध्योपासनकर्तव्यता पूर्वत्र प्रदर्शिता । तच्चोपासनं कथं कार्यमित्याकाङ्क्षायां संध्यात्रयस्वरूपप्रदर्शनपूर्वकं तदभिधीयते ।
तत्र संध्यास्वरूपं प्राह श्रुतिः--
"रक्षा सि ह वा पुरोनुवाके तपोग्रमतिष्ठन्त तान्प्रजापतिर्वरेणोपामन्त्रयत तानि वरमवृणीताऽऽदित्यो नो योद्धा, इति तान्प्रजापतिरब्रवीद्योधयध्वमिति तस्मादुत्तिष्ठन्त ह वा तानि रक्षा स्यादित्यं योधयन्ति यावदस्तमन्वगात्तानि ह वा एतानि रक्षा सि गायत्रियाऽभिमन्त्रितेनाम्भसा शाम्यन्ति तदु ह वा एते ब्रह्मवादिनः पूर्वाभिमुखाः संध्यायां गायत्रियाऽभिमन्त्रिता आऽप ऊर्ध्वं विक्षिपन्ति ता एता आपो वज्री भूत्वा तानि रक्षा सि मन्देहारुणे द्वीपे प्रक्षिपन्ति यत्प्रदक्षिणं प्रक्रमन्ति तेन पाप्मानमवधून्वन्त्युद्यन्तमस्तं यन्तमादित्यमभिध्यायन्कुर्वन्ब्राह्मणो विद्वान्सकलं भद्रमश्नुतेऽसावादित्यो ब्रह्मेति ब्रह्मैव सन्ब्रह्माप्येति य एवं वेद" इति ।
वक्ष्यमाणप्रकारेण प्राणायामादिकं कर्म कुर्वन्वक्ष्यमाणयथोक्तनामवर्णरूपोपेतसंध्याशब्दवाच्यमादित्यं ब्रह्मेति ध्यायन्नैहिकमामुष्मिकं च सकलं भद्रमश्नुते । य एवमुक्तध्यानेन शुद्धान्तःकरणो ब्रह्म साक्षात्कुरुते स पूर्वमपि ब्रह्मैव सन्नज्ञानाज्जीवत्वं प्राप्तो यथोक्तज्ञानेन तदज्ञानापगमे ब्रह्मैव प्राप्नोतीत्यर्थः । अत्राभिध्यानमुपासनम् ।
व्यासोऽप्येतदेवाभिप्रेत्याऽऽह--
"न भिन्नां प्रतिपद्येत गायत्रीं ब्रह्मणा सह । |
स्मृत्यन्तरेऽपि--
"संध्येति सूर्यगं ब्रह्म संधानादिविधानतः । |