तस्य दासोऽहमस्मीति सोऽहमस्मीति वा मतिः । |
संध्यास्वरूपमाह पराशरः--
"अहोरात्रस्य यः संधिः सूर्यनक्षत्रवर्जितः । |
अत्र यद्यपि कालवाचकत्वेन संध्याशब्दः प्रतीयते तथाऽपि तस्मिन्काल उपास्या देवता संध्याशब्देनोपलक्ष्यते । तथा च देवताया उपासनमुपलक्ष्य पराशरवचने कर्मपरत्वेन संध्याशब्दः प्रयुक्तः । अथवा संधौ भवा क्रिया संध्या ।
अत एव व्यासः--
"उपास्ते संधिवेलायां निशाया दिवसस्य च । |
तामेव क्रियां विदधाति[१] याज्ञवल्क्यः--
"संधौ संध्यामुपासीत नास्तगे नोद्गते रवौ" इति । |
सा च संध्या त्रिविधा ।
तदुक्तमत्रिणा--
"संध्यात्रयं तु कर्तव्यं द्विजेनाऽऽत्मविदा सदा" इति । |
तत्र कालभेदेन देवताया नामादिभेदमाह व्यासः--
"गायत्री नाम पूर्वाह्णे सावित्री दिनमध्यके । |
वर्णभेदः स्मृत्यन्तरे विहितः--
"गायत्री तु भवेद्रक्ता सावित्री शुक्लवर्णिका । |
- ↑ ख.ग. घ. ङ. ति योगया ।