मन्त्रणे विनियोगः । 'ॐ गणानां त्वा० सादनम्' [इति ] कुमारमभिमन्त्र[१]यते । ततस्तमञ्जलिं स्वपाणिभ्यामादाय, व्यस्तसमस्तव्याहृतीनां गायत्र्याश्चर्ष्यादि पूर्ववत्स्मृत्वा, कुमारस्य गायत्र्युपदेशे विनियोग इति विनियोगवाक्यं स्मृत्वा,
"भूस्तत्सवितुर्वरेण्यं, भूवो भर्गो देवस्य धीमहि, सुवर्धियो यो नः प्रचोदयात्, भूर्भुवस्तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । सुवर्धियो यो नः प्रचोदयात् । भूर्भुवः सुवस्तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्"
सावित्रीमेवंप्रकारेण पच्छोऽर्धर्चशोऽनवानमिति प्राङ्मुखं कुमारं वाचयति । अत्र सर्वानुवाचनस्यादृष्टार्थत्वादवसानं विना यथा वाचनं स्यात्तथा वाचनं कार्यम् । सर्वथैवमुच्चारणाशक्तौ यथाशक्ति वाचयति । यथाशक्ति वाचयन्संधिकृतं वर्णविकारं नान्यथा कुर्वीतेति कौस्तुभे । तैत्तिरीयाणां गायत्र्यारम्भेणैव ऋग्यजुःसामात्मकवेदत्रयाध्ययनाधिकारो भवति ।
ततः कर्माङ्गदेवताप्रीत्यर्थं शतद्व[२]यं पञ्चाशद्वाऽत्यशक्तौ दश वा ब्राह्मणान्भोजयित्वा तेभ्यो दक्षिणां दद्यात् । ततः कर्माङ्गदेवताप्रीत्यर्थं गन्धताम्बूलादिभिर्ब्राह्मणपूजनं तेभ्यो भूयसीदक्षिणादानं च कृत्वा 'ॐ अग्ने तेजस्विन्' इत्यादिभिर्मन्त्रैराशिषो ग्राह्याः । ततः प्रमादादिति कर्मसाद्गुण्याय विष्णुं स्मरेत् ।
ततो ब्रह्मचारी स्वकाले कालप्राप्तां मध्याह्नसंध्यां कुर्यात् । नात्र सायमारम्भो नियतोऽनुक्तत्वात् । "संध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु" इत्युक्तत्वात् ।
"यावद्ब्रह्मोपदेशस्तु तावत्संध्यादिकं च न । |
इति जैमिनिवचनतोऽपि मध्याह्नसंध्याया एव प्रथमतः प्राप्तत्वाच्च । 'त्र्यहे पर्यवेते तथैव त्रिवृताऽन्नेन ब्राह्मणान्परिविष्य' इतिसूत्रे तथेति वचनेनोपनयनाग्निप्राप्तेर्ज्ञापितत्वात्, बौधायनीय उपनयनाग्नेः कर्मसमाप्त्यन्तं व्यक्ततया धारणस्योक्तेश्चोपनयनाग्निश्चतुर्थदिवसीयकर्मसमाप्त्यन्तं संरक्षणीयः । तस्मिन्नेव