पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२०६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२०२
[ब्रह्मवरणादिपरिधिपरिधानान्तम्]
भट्टगोपीनाथदीक्षितविरचिता--
( उपनयन उपवीतधारणम्, उपनयनहोमः )
 

 निर्मितमुपवीतं भिक्षापात्रं च प्रयुज्य गां समीपे संस्थाप्य संमार्गदर्भानवज्वलनदर्भार्न्बहिरिध्ममाज्यं सप्त पालाशीः समिधश्चाऽऽसादयेत् । मातृदत्तेन पौष्करसादिपक्ष एव कूर्चप्रयोग उक्तः स चिन्त्यः ।

 ततो ब्रह्मवरणादिपरिधिपरिधानान्तं कृत्वाऽग्नेरुत्तरतस्तिष्ठतः कुमारस्य कटावासादितं सूत्रमाबध्याऽऽसादितं कौपीनं परिधाप्य दर्भेषूपवेश्य द्विराचमनं कारयेत् ।

 ततः कुमारस्तत्रैवोपविष्टः--देवस्य त्वेत्यस्य मन्त्रस्य प्रजापतिरुपवीतं यजुः । आदाने विनियोगः । 'ॐ देवस्य त्वा स० भ्यामाददे' इत्यासादितमुपवीतमादाय, उद्वयमित्यस्य सोमः सूर्योऽनुष्टुप् । आदित्यायोपवीतप्रदर्शने विनियोगः । 'ॐ उद्वयं त० रुत्तमम्' इत्युपवीतमादित्याय प्रदर्श्य, यज्ञोपवीतमित्यस्य परब्रह्म परमात्मा त्रिष्टुप् । उपवीतधारणे विनियोगः । ॐ यज्ञोपवीतं० स्तु तेजः' इति दक्षिणं बाहुमुद्धार्य धारयेत् ।

 शिष्टास्त्विदानीं बौधायनोक्तविधिना यज्ञोपवीतनिर्माणासंभवेन सिद्ध एव यज्ञोपवीते तत्तन्मन्त्रैश्चेष्टाः कृत्वा तद्धारयन्ति । अत्राप्यसंभवे तूष्णीमेव निर्मितं यज्ञोपवीतं गायत्र्याऽऽपो हि ष्ठादिभिस्त्रिभिर्मन्त्रैर्वाऽभिमन्त्रिताभिरद्भिः सव्याहृतिकया गायत्र्या दशवारमभ्युक्ष्य यज्ञोपवीतं परमं पवित्रमिति मन्त्रेण समस्तव्याहृतिभिर्वा "यज्ञोपवीतेनोपव्ययामि दीर्घायुत्वाय सुप्रजास्त्वाय सुवीर्याय सर्वेषां वेदानामाधिपत्याय यशसे ब्रह्मवर्चसाय" इति कोषीतक्युक्तमन्त्रेण वा धारयेत् ।

 ततो द्विराचम्याग्न्यायतनादीशान्यां दिशि द्विराचम्याग्रेणाग्निं ब्रह्माग्न्योर्मध्येनाऽऽचार्यस्य दक्षिणतो गत्वा तत्र प्राङ्मुख उपविश्य तमन्वारभते । अपरेणाग्निमिति मातृदत्तः ।

उपनयनहोमः ।

 अथाऽऽचार्यः कुमारेणान्वारब्धः परिषेकादिव्याहृतिहोमान्तं कृत्वा प्रधानहोमं कुर्यात् ।

 आयुर्दा इत्यस्य विश्वे देवा आयुर्दा अग्निस्त्रिष्टुप् । आयुर्दा देवेत्यस्य सौत्रमन्त्रस्य वामदेव आयुर्दा देवोऽग्निस्त्रिष्टुप् । उपनयनप्रधानाज्यहोमे विनियोगः । 'ॐ आयुर्दा अग्ने० दिम स्वाहा' आयुर्देऽग्नय इदं० । 'ॐ आयुर्दा देवज० नयेम