सामग्री पर जाएँ

पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२०७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[उपनयनहोमः]
२०३
संस्काररत्नमाला ।
( अश्मारोहणादि मेखलाबन्धनान्तम् )
 

स्वाहा' आयुर्दे देवायाग्नय इदं० । इति प्रधानाहुतिद्वयं जुहुयात् । अविज्ञातस्वरा मन्त्राः सर्वत्रैकश्रुत्येन प्रयोक्तव्याः ।

 तत इमं मे वरुणेत्यादि स्विष्टकृदन्तं कृत्वाऽग्नेरुत्तरत उत्तरपरिधिसंधिमग्रेणाऽऽसादितमश्मानं निधाय कुमारमग्रेणाग्निमानीय, 'ॐ आ तिष्ठेममश्मानमश्मेव स्व स्थिरो भव । प्रमृणीहि दुरस्यून्सहस्व पृतनायतः' इति दक्षिणेन पादेनाश्मन उपरि तं स्थापयति । सूत्रे दक्षिणेनेतिवचनं सव्यनिवृत्त्यर्थं क्रमार्थं वा । प्रथमे पक्षे दक्षिणपादस्यैवाश्मोपरि स्थापनं न सव्यस्य । द्वितीयपक्षे तु कुमारस्य प्रथमं दक्षिणपादमेव संस्थाप्य सव्यः संस्थापनीयः । सर्वत्र सौत्रमन्त्राणामृषिर्वामदेवः । मन्त्रोक्ता देवताः । छन्दांसि तूह्यानि । सौत्रमन्त्रे ह्यृप्याद्यवगमापेक्षा नास्तीति मतस्यापि सत्त्वान्नोच्यत ऋष्यादिकम् । मतान्तरमादायोच्यमाने तु सौत्रमन्त्राणामतिबहुत्वादतिविस्तरः स्यात् ।

 ततः कुमारमश्मनोऽवतार्याश्मानं तस्माद्देशान्निःसार्य पूर्वं परिधापितं वासः प्रज्ञातं निधाय,

 "ॐ या अकृन्तन्नवयन्या अतन्वत याश्च देवी रन्तानभितो ददन्त । तास्त्वा देवीर्जरसा संव्ययंत्वायुष्मानिदं परिधत्स्व वासः । परिधत्त धत्त वाससैन शतायुषं कृणुत दीर्घमायुः । बृहस्पतिः प्रायच्छद्वास एतत्सोमाय राज्ञे परिधात वा उ । जरां गच्छासि परिधत्स्व वासो भवाकृष्टीनामभिशस्तिपावा । शतं च जीव शरदः सुवर्चा रायश्च पोषमुपसंव्ययस्व" इत्यासादितयोर्वाससोर्मध्य एकं वासः परिधापयति ।

 ॐ परीदं वासोऽधिधाः स्वस्तये भरापीणामभिशस्तिपावा । शतं च जीव शरदः पुरूचीर्वसूनि चार्यो विभजासि जीवन्' इति परिहितवाससं कुमारमभिमन्त्रयते । वसूनि चाय्यो विभजासजीवन्निति प्रमादपाठः ।

 ततस्तमुपवेश्य द्विराचमनं कारयेत् ।'ॐ या दुरिता परिबाधमाना शर्म वरूथे पुनती न आगात् । प्राणापानाभ्यां बलमावहन्ती स्वसा देवाना सुभगा मेखलेयम् ।' इत्यासादितया मेखलया कुमारं नाभिदेशे त्रिः प्रदक्षिणं परिव्ययति, द्विरित्येके सकृन्मन्त्रः । ततो नाभेरुत्तरतो मेखलायास्त्रिगुणं ग्रन्थिं कृत्वा दक्षिणतो नाभेः परिकर्षति ।

 "ॐ मित्रस्य चक्षुर्धरुणं धरीयस्तेजो यशस्वि स्थविर समिद्धम् ।

अनाहनस्यं वसनं जरिष्णु परीदं वाज्यजिनं धत्स्वासावदितिस्ते कक्षां