सामग्री पर जाएँ

पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१९०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८६
[उपनयनप्रकरणम्]
भट्टगोपीनाथदीक्षितविरचिता--
( उपनयने मेखलाकौपीनाजिनदण्डयज्ञोपवीतानि )
 

तेषु सर्वेष्वपि मातृसहितत्वमस्त्विति वाच्यम् । आचारसंवादेन सूत्रोक्ताशनपर्यायके भोजन एवैतस्य वचनस्य प्रवृत्तेरुचितत्वेन प्रधानोत्तरकालिके सूत्रकृता कण्ठरवेणानुक्ते भोजने मात्रा सहेत्यस्याप्रवृत्तेः ।

 यत्तु--

"मात्रा सहैव भुञ्जीत ऊर्ध्वं माता रजस्वला ।
व्रतबन्धः प्रशस्तः स्यादित्याह भगवान्यमः" ।

 इतिवचनतो भोजनात्प्राङ्मातरि रजस्वलायां व्रतबन्धो न भवतीति केचित् । अन्ये त्वेतस्य वचनस्यैव महानिबन्धेष्वदर्शनेन निर्मूलत्वात्कर्तव्यमेवेत्याहुः । अत्राऽऽचारानुरोधेन ग्राह्यम् ।

 कटिसूत्रं कौपीनं च परिकल्पनीयम्, तदुभयं यद्यप्यत्र सूत्रस्मृत्यादौ नोक्तं तथाऽपि ब्रह्मचारिधर्मप्रकरणे--

"मेखलामजिनं दण्डमुपवीतं च सर्वदा ।
कटिसूत्रं च कौपीनं ब्रह्मचारी तु धारयेत्" ॥

 इति वक्ष्यमाणयमवचन उपनयनीयमेखलाजिनदण्डोपवीतानां सर्वदा ब्रह्मचारिकर्तृकधारणविधानवत्कटिसूत्रकौपीनयोरपि सर्वदा धारणविधानेनोपनयन आक्षेपतस्तत्प्राप्तिसिद्धेः ।

 "वासः शाणीक्षौमाजिनानि" इति धर्मसूत्रव्याख्यानावसरे वस्यते कौपीनमाच्छाद्यते येन तद्वास इत्युज्ज्वलाकारोक्तेः ।

"गृहस्थः कुरुते कर्म वैदिकं वाऽथ तान्त्रिकम् ।
कटिबन्धनसंयुक्तं तत्सर्वं निष्फलं भवेत्" ॥

 इति स्मृत्यन्तरे गृहस्थस्यैव कर्मकाले कटिबन्धननिषेधेन ब्रह्मचार्यादीनां कटिबन्धनस्यानुमतत्वप्रदर्शनात् । उज्ज्वलाकृता कौपीनधारणोक्त्या कटिबन्धनस्याप्यर्थत एव दर्शितप्रायत्वाच्छिष्टाचाराच्च ।

 यज्ञोपवीतं गृह्य--

"दक्षिणतो यज्ञोपवीत्याचान्तः कुमार उपविश्यान्वारभते" ।

 इति दक्षिणत इत्यस्योपविश्येत्यनेनान्वयः[]

 बौधायनगृह्ये--

 "स्नात शुचिवाससं बद्धशिखं यज्ञोपवीतं प्रतिमुञ्चन्वाचयति-- यज्ञोपवीतं प० बलमस्तु तेज इति यज्ञोपवीतिनमप आचमय्य देवयजनमुदानयति" इति ।


  1. घ. ङ. य. । बोधा ।