पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१९१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[उपनयनप्रकरणम्]
१८७
संस्काररत्नमाला ।
( कौपीननिर्माणधारणयोर्विशेषः )
 

 धर्मसूत्रे--'अपि वा सूत्रमेवोपवीतार्थे' इति । अपि वा सूत्रमेव सर्वेषामुपवीतकृत्ये भवति न वास एवेति नियम इत्यर्थ इति व्याख्यातमुज्ज्वलाकृता ।

 एतच्च कार्पासम् ।

"कार्पासमुपवीतं स्याद्विप्रस्योर्ध्ववृतं त्रिवृत्" इति मनूक्तेः ।

 कार्पासाभावे देवलः--

"कार्पासक्षौमगोवालशाणवल्कतृणादिकम् ।
यथासंभवतो धार्यमुपवीतं द्विजातिभिः" इति ।

 क्षुमाऽतसी । वल्कं तरुत्वक् । यथासंभवत इत्यत्र सार्वविभक्तिकस्तसिः । यथासंभवमित्यर्थः ।

 छान्दोग्यगृह्ये--

"यज्ञोपवीतं कुरुते सूत्रं वस्त्रं वाऽपि वा कुशरज्जुमेव" इति ।

 भृगुः--

"त्रिवृदूर्ध्ववृतं कुर्यात्तन्तुत्रयमधोवृतम् ।
त्रिवृतं तूपवीतं स्यात्तस्यैको ग्रन्थिरिष्यते' इति ।

 ऊर्ध्ववृतप्रकारमाह संग्रहकारः--

"करेण दक्षिणेनोर्ध्वं गतेन त्रिगुणीकृतम् ।
वलितं ब्राह्मणैः सूत्रं शास्त्र ऊर्ध्ववृतं स्मृतम्" इति ।

 ऊर्ध्वं गतेनोर्ध्वस्थितेन दक्षिणकरेण त्रिगुणीकृतं सद्यद्वलितं तदूर्ध्ववृतमित्यर्थः ।

 देवलः--

"विधवारचितं सूत्रमनध्यायकृतं च यत् ।
विच्छिन्नं चाप्यधो यातं भुक्त्वा निर्मितमुत्सृजेत्" इति ।

 अधो यातमित्यत्र कटेरिति शेषः ।

 कात्यायनः--

"पृष्ठदेशे च नाभ्यां न धृतं यद्विन्दते कटिम् ।
तद्धार्यमुपवीतं स्यान्नातिलम्बं न चोच्छ्रितम्" इति ।

 नातिलम्बमित्यनेन कटितोऽधिकं निषिध्यते । नोच्छ्रितमित्यनेन कटितो न्यूनम् ।

 वसिष्ठः--

"नाभेरूर्ध्वमनायुष्यमधो नाभेस्तपःक्षयः ।
तस्मान्नाभिसमं कुर्यादुपवीतं विचक्षणः" इति ।

 देवलः--

"उपवीतं वटोरेकं द्वे तथेतरयोः स्मृते ।
एकमेव यतीनां स्यादिति शास्त्रविनिश्चयः" इति ।