पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१८९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[उपनयनप्रकरणम्]
१८५
संस्काररत्नमाला ।
( उपनयने मात्रा सह भोजनम् )
 

लम्बा भित्तिर्द्विहस्ता स्यादुन्नता त्रिदशाङ्गुला ।
प्रत्यग्वेद्यां च सा कार्या विस्ताराद्द्वादशाङ्गुला ।
अष्टावष्टौ प्रकुर्वीत सोपानान्यथ पार्श्वयोः ।
तन्मध्ये कलशाकारमिति यज्ञविदां मतम्" इति ।

 विवाहवेदिदृष्टाः कूर्मपृष्ठोन्नतत्वप्रागुदक्प्रवणत्वपुष्पमालारम्भास्तम्भाद्युपशोभितत्वादयो धर्मा अविरोधादत्रापि ज्ञेयाः ।

 शिष्टास्त्विदानीं विवाहवेदिवदेव वेदिं कुर्वन्ति ।

 तत्रैव ग्रन्थान्तरे विशेषः--

"पश्चिमाभिमुखं द्वारं यद्वा चेदुत्तरामुखम् ।
वेदिका तु तदा कार्या गृहान्निर्गमदक्षिणे" इति ।

 निर्गमशब्देन द्वारमुच्यते । पश्चिमाभिमुखद्वारोत्तराभिमुखद्वारयोर्दक्षिणे वेदिकरणोक्त्या[१] दक्षिणाभिमुखद्वारपूर्वाभिमुखद्वा[२]रयोर्वामभागे वेदिः [३]कार्येत्यर्थादवगतं भवति[४] । एवं च नैर्ऋत्यां वेदिर्न भवतीति तात्पर्यार्थः सिध्यति[५][६]केवलं दक्षिणामुखं तु द्वारं शिल्पशास्त्रे निषिद्धम् । एवं चावशिष्टं पूर्वाभिमुखमेव द्वारं तस्य वामभागे वेदिर्भवतीत्यर्थः सिध्यति[७]

 राशिविशेषपरत्वेन द्वारस्य दक्षिणा[भि]मुखतोक्ता श्रीपतिना--

"कर्किनक्रहरिकुम्भगतेऽर्के पूर्वपश्चिममुखानि गृहाणि ।
तौलिमेषवृषवृश्चिकयाते दक्षिणोत्तरमुखानि(णि) तु कुर्यात् ।
अन्यथा यदि करोति दुर्मतिर्व्याधिशोकभयहानिमश्नुते ।
मीनचापमिथुनाङ्गनागते भास्करे न तु गृहाणि कारयेत्" इति ।

 उपनयने मात्रा सह भोजनमनुज्ञातं संग्रहकारेण--

"मात्रा सहोपनयने विवाहे भार्यया सह ।
अन्यत्र सहभुक्तिश्चेत्पातित्यं प्राप्नुयान्नरः" इति ।

 कृच्छ्रत्रयात्मकप्रायश्चित्ताचरणोत्तरं कामचारकामवादकामभक्षणनिषेधप्रवृत्तेरिव न स्त्रिया सह भुञ्जीतेति निषेधस्यापि प्रवृत्तत्वात्तस्य बाधोऽनेन क्रियते । न च मात्रा सहोपनयन इति वचनादुपनयनमध्ये यावन्ति भोजनानि


२४
 
  1. क. ख. क्त्या पू ।
  2. क. ख. द्वारे वाम ।
  3. ग. वतीति वचनैर्नैर्ऋत्यां ।
  4. क. ति । के ।
  5. ख. ति । उ । घ. ङ. ति । रा ।
  6. पर्वोक्तार्थसमर्थनार्थ केवलमित्यादिर्ग्रन्थः ।
  7. क. ति । उप ।