पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१८८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८४
[उपनयनप्रकरणम्]
भट्टगोपीनाथदीक्षितविरचिता--
( मण्डपपरिमाणं वेदिपरिमाणं च )
 

 गुरुरत्राऽऽचार्यः । अस्या गायत्र्याः प्रदानार्थं यः स्वस्याधिकारस्तदर्थमिदं स्मृतमित्यन्त्यार्धे योजना ।

इत्युपनेतार उपनेत्रुपनेयकर्तृकप्रायश्चित्तं च ।


अथोपनयनोपयोगिपदार्थनिरूपणम् ।

 तत्र मण्डपो वसिष्ठेनोक्तः--

"षोडशारत्निकं कुर्याच्चतुर्द्वारोपशोभितम् ।
मण्डपं तोरणैर्युक्तं तत्र वेदिं[१] प्रकल्पयेत् ।
अष्टहस्तं तु रचयेन्मण्डपं वा द्विषष्ट्करम्" इति ।

 तत्र मण्डपे । द्विषट्करो द्वादशकरः । एतस्य मण्डप[२]स्योपनयनविवाहसंस्काराङ्गत्वात्त[३]योश्च सूत्रोक्तत्वात्सूत्रोक्तसंस्काराङ्गमण्डपे सूत्रोक्तचतुर्विंशाङ्गुलात्मक एवारत्निर्ग्राह्यः ।

 अन्यत्रापि--

"मङ्गलेषु च सर्वेषु मण्डपो गृहमानतः ।
कार्यः षोडशहस्तो वा न्यूनस्तु स्याद्दशावधिः ।
स्तम्भैश्चतुर्भिरेवात्र वेदिर्मध्ये प्रतिष्ठिता" इति ।

 गृहमानत इत्यस्य महति गृहे महान्मण्डपः । अल्पे न्यून इत्यर्थः । दशावधिरिति न्यूनताया अवधिः । अतो वसिष्ठोक्तोऽष्टहस्तोऽत्यन्तापद्विषयः । स्तम्भैश्चतुर्भिरित्यत्र युक्तेति शेषः । इदं च वेदिविशेषणम् । वेदिर्मध्ये प्रतिष्ठितेति वचनाद्वेद्यनुरोधेनैव मण्डपः कार्यः, न तु पृथक् । अन्यथा-- सद्मनो वामभागे तु वे[४]दी कार्या चतुष्करेति वेदिर्मध्ये प्रतिष्ठितेति वचनयोर्विरोधः स्यात् ।

"मण्डपः सद्मनो द्वारि कर्तव्यो गृहमानतः" ।

 इतिवचनानुरोधेन मण्डपो यदि क्रियते तदा वेदेर्मण्डपबहिर्भाव एवेति द्रष्टव्यम् ।

 वेदिरुक्ता मानवसूत्रानुसारिपद्धतौ संग्रहे--

"आचार्यस्य पदैः षड्भिश्चतुर्भिरथवा पदैः ।
आयामविस्तारवती वटोर्वेदी करोन्नता ।


  1. घ. वेदीं ।
  2. क. ख. पस्य वि ।
  3. क. ख. त्तस्य च सू ।
  4. ग. वेदि (:) कायं (र्या) च ।