कुशाहरणादिविधिः ।
अथ संक्षेपेण कुशाहरणादिविधिः । तत्र शातातपः--
"समित्पुष्पकुशादीनि ब्राह्मणः स्वयमाहरेत् । |
आदिशब्देन दूर्वादि । उत्तरार्धादिदमपि ज्ञायते स्वस्याऽऽहरणाशक्तौ ब्राह्मणक्षत्रियवैश्याहृतैः कर्मकरणे दोषो नास्तीति । लक्षपुष्पार्चनादौ तु क्रयक्रीतनिषेधो न
"लक्षपुष्पार्चनादौ तु क्रयक्रीतमपीष्यते" इति मन्त्रकोशकारोक्तेः । |
आदिशब्देन दूर्वादिलक्षपूजनं गृह्यते । कुशग्रहणकालमाहाङ्गिराः--
"अहन्यहनि कर्मार्थं कुशच्छेदः प्रशस्यते । |
पूर्वकर्मणि धृता ये कुशास्ते नोत्तरत्रानन्तरं क्रियमाणेषु कर्मसु योग्या इत्यर्थः ।
जाबालिः--
"कुशान्काशांश्च पुष्पाणि गवार्थं च तृणादिकम् । |
अहन्यहनि दर्भच्छेदनासंभवे कालान्तरमुक्तं स्मृत्यन्तरे--
"मासि मास्याहृता दर्भास्तत्तन्मास्येव चोदिताः" इति । |
अस्याप्यसंभवे विष्णुः--
"दर्शे श्रावणमासस्य समन्त्रोत्पाटिताः कुशाः । |
अयातयामा अपर्युषिताः । नियोज्या उपयुक्ता अप्यनिषेधेऽन्यत्र प्रयोज्या इत्यर्थः । यस्तु--
"अमायां नैव हिंस्यात्तु कुशांश्च समिधस्तथा । |
इति निषेधः स यस्मिन्मुहूर्तत्रये वनस्पतिषु सोमो वसति तत्परो न तु कृत्स्नामापर इति । योऽयं वनस्पतिगतसोमविशिष्टे काले छेदननिषेधः स