पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१८७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[उपनयनप्रकरणम्]
१८३
संस्काररत्नमाला ।
( वटूपनेत्रोरधिकारसिद्ध्यै प्रायश्चित्तम् )
 

 विश्वप्रकाशे स्मृत्यन्तरे--

"असगोत्रः सगोत्रो वा य आचार्य उपायने ।
तदोपनेयपित्रादीनुद्दिश्याभ्युदयं चरेत् ।
कन्योद्वाहेऽप्ययं मार्गो मुनिभिः परिकीर्तितः" इति ।

 वटूपनेत्रोरधिकारसिद्ध्यै प्रायश्चित्तमाह प्रयोगपारिजाते बृहद्विष्णुः--

"कृच्छ्रत्रयं चोपनेता त्रीन्कृच्छ्रांश्च वटुश्चरेत्" इति ।

 वटोः प्रायश्चित्तं[१] ब्राह्मणभोजनादिसुगमप्रत्याम्नायद्वारैव, असामर्थ्यात् । गायत्रीजपरुद्रैकादशिन्यादि वैदिकाः प्रत्याम्नाया एतस्य नैव भवन्ति, अनधिकारात् ।

 उपनेत्रा वा मुख्यकल्पेन चरितव्यम्--

"ऊनद्वादशवर्षस्य प्रायश्चित्तं चरेत्पिता" इति वचनात् ।

 पितेत्युपलक्षणमुपनेतुः ।

 आचार्यस्य गायत्र्युपदेशाधिकारार्थं [२]जपमप्याह स एव--

"सावित्रीमभ्यसेदग्निपवित्राणि च संस्मरन् ।
गुरुर्द्वादशसाहस्रं सावित्रीं प्रजपेत्ततः ।
स्वाधिकारार्थमेवास्याः प्रदानार्थं हि तत्स्मृतम्" इति ।

 प्रदानार्थमिदं स्मृतमित्यपि क्वचित्पाठः । अग्निपवित्राणि अग्न आयू षि पवस इत्यादयो देवस्य त्वेतिप्रश्नान्तर्गताः षण्मन्त्राः । संस्मरन्निति लडादेशेन द्वादशसहस्रं द्वादशाधिकसहस्रं वा गायत्रीजपं संकल्प्य तस्मात्पूर्वं मानसो जप एतेषां गायत्रीजपाधिकारसिद्ध्यर्थं कार्य इति ज्ञाप्यते । अभ्यसेदित्यस्य जपेदित्यर्थः । द्वितीयार्थे सावित्रीं प्रजपेदिति वचनमनुवादः ।

 सावित्रीं प्रजपेदित्यस्य विधायकत्वे तु सकृज्जपविधायकमेकम् । अन्यद्द्वादशसहस्रद्वादशाधिकसहस्रान्यतरसंख्यजपविधायकं, नातः पुनरुक्तिदोषः । अस्मिन्पक्षे गायत्रीजपं संकल्प्याग्निपवित्रसंज्ञकान्षण्मन्त्रान्सकृज्जपित्वा सावित्रीं सकृदुक्त्वा द्वादशसहस्रद्वादशाधिकसहस्रान्यतरसंख्यया सावित्रीं प्रजपेदिति क्रमः ।

 संस्मरेदिति पाठे तु--अग्निपवित्राणि जपित्वा सकृद्गायत्रीमुक्त्वा संकल्पपूर्वकं द्वादशसहस्रं द्वादशाधिकसहस्रं वा गायत्रीं जपेदित्येवं क्रमः ।


  1. क. स. त गोदाना ।
  2. क. जप्यम ।