विश्वप्रकाशे स्मृत्यन्तरे--
"असगोत्रः सगोत्रो वा य आचार्य उपायने । |
वटूपनेत्रोरधिकारसिद्ध्यै प्रायश्चित्तमाह प्रयोगपारिजाते बृहद्विष्णुः--
"कृच्छ्रत्रयं चोपनेता त्रीन्कृच्छ्रांश्च वटुश्चरेत्" इति । |
वटोः प्रायश्चित्तं[१] ब्राह्मणभोजनादिसुगमप्रत्याम्नायद्वारैव, असामर्थ्यात् । गायत्रीजपरुद्रैकादशिन्यादि वैदिकाः प्रत्याम्नाया एतस्य नैव भवन्ति, अनधिकारात् ।
उपनेत्रा वा मुख्यकल्पेन चरितव्यम्--
"ऊनद्वादशवर्षस्य प्रायश्चित्तं चरेत्पिता" इति वचनात् । |
पितेत्युपलक्षणमुपनेतुः ।
आचार्यस्य गायत्र्युपदेशाधिकारार्थं [२]जपमप्याह स एव--
"सावित्रीमभ्यसेदग्निपवित्राणि च संस्मरन् । |
प्रदानार्थमिदं स्मृतमित्यपि क्वचित्पाठः । अग्निपवित्राणि अग्न आयू षि पवस इत्यादयो देवस्य त्वेतिप्रश्नान्तर्गताः षण्मन्त्राः । संस्मरन्निति लडादेशेन द्वादशसहस्रं द्वादशाधिकसहस्रं वा गायत्रीजपं संकल्प्य तस्मात्पूर्वं मानसो जप एतेषां गायत्रीजपाधिकारसिद्ध्यर्थं कार्य इति ज्ञाप्यते । अभ्यसेदित्यस्य जपेदित्यर्थः । द्वितीयार्थे सावित्रीं प्रजपेदिति वचनमनुवादः ।
सावित्रीं प्रजपेदित्यस्य विधायकत्वे तु सकृज्जपविधायकमेकम् । अन्यद्द्वादशसहस्रद्वादशाधिकसहस्रान्यतरसंख्यजपविधायकं, नातः पुनरुक्तिदोषः । अस्मिन्पक्षे गायत्रीजपं संकल्प्याग्निपवित्रसंज्ञकान्षण्मन्त्रान्सकृज्जपित्वा सावित्रीं सकृदुक्त्वा द्वादशसहस्रद्वादशाधिकसहस्रान्यतरसंख्यया सावित्रीं प्रजपेदिति क्रमः ।
संस्मरेदिति पाठे तु--अग्निपवित्राणि जपित्वा सकृद्गायत्रीमुक्त्वा संकल्पपूर्वकं द्वादशसहस्रं द्वादशाधिकसहस्रं वा गायत्रीं जपेदित्येवं क्रमः ।