पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१५८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५४
[ग्रहमखप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--
(अन्वाधानम् )
 

 ततः परिषेकादिप्रसाधनीदेवीहोमान्तं व्याहृतिहोमान्तं वाऽन्वाधानोत्कीर्तितपक्षानुसारेण कुर्यात् । अस्मिन्नग्नौ चरुश्रपणासंभवेन गृहसिद्धान्नेन देवपवित्रसंस्कारसंस्कृतेन होमं कुर्वन्ति शिष्टा इदानीम् ।

 ततो गणानां त्वेत्यस्य विश्वे देवा गणपतिर्जगती । होमे वि०--- "ॐ गणानां त्वा गणपतिं० सादन स्वाहा" इत्येकां पलाशसमिधं जुहोति । गणपतय इदं न ममेति त्यागः । एवमेकां चर्वाहुतिमेकामाज्याहुतिं जुहोति । त्यागः पूर्ववत् ।

"जुहुयात्समिदन्नाज्यैः पृथगष्टोत्तरं शतम्"

 इतिवचने समिद्विषयेऽपि जुहुयादित्युक्तत्वात्स्वाहाकारोऽत्र स्मार्तः ।

 तत्र ऋत्विज उदङ्मुखाः प्राङ्मुखा वोपविश्य द्विराचम्यामुक्तकेशा निपातितजानुकाः सावधानमनसो वाग्यता होमं कुर्युः । होमारम्भात्मागेव) यजमान इमान्युपकल्पितानि हवनीयद्रव्याण्यन्वाधा[१]नोद्दिष्टसंख्याहुतिपर्याप्तानि या या यक्ष्यमाणा देवतास्ताभ्यस्ताभ्यो मया परित्यक्तानि न ममेति द्रव्यत्यागं कुर्यादिति सांप्रदायिकाः ।

 प्रधानहोमान्वाधानात्पूर्वं[२] मण्डलदेवताहोमान्वाधानं कृतं चेदत्र [३]होममाचार्य एवं कुर्यात् ।

 तत ऋत्विज आवाहनोक्ततत्तन्मन्त्रैर्ऋ[४]ष्यादिस्मरणपूर्वकमन्वाधानो[५]त्कीर्तितर्द्रव्यैरन्वाधानो[६]त्कीर्तितसंख्यया होमं कुर्युः । ([७]अत्र विनियोगवाक्ये होमे विनियोग इति विशेषो द्रष्टव्यः । ) अर्कः पलाशः खदिरोऽपामार्गः पिप्पल उदुम्बरः शमी दूर्वाः कुशा इति क्रमेण[८] ग्रहसमिधः । एतासामलाभे पलाशसमिधः ।

 तत्र सर्पिर्मधुदध्यक्ताः प्रादेशमा[९]त्रीरवान्तरशाखारहिता मूलतो द्व्यङ्गुलं प्रदेशं विहाय मध्यमानामिकाङ्गुष्ठैर्गृहीत्वा समिधो होतव्याः ।


  1. घ. ङ. नोत्कीर्तितसं ।
  2. घ ङ. र्व सर्वतोभद्रपीठदे ।
  3. क. होमः । त ।
  4. क. ख. ग. न्त्रैरन्वा ।
  5. क. ख. ग. नोद्दिष्टैर्द्रव्यै ।
  6. क. ख. ग. नोक्तसंख्य हो ।
  7. धनुश्चिह्नान्तर्गतग्रन्थस्थाने क. ख. ग. पुस्तकेषु विद्यमानो ग्रन्थ एवम्--"तत्र चरुसमिद्धोमकर्तार: स्वस्वदक्षिणहस्त निष्टप्य वामहस्तेन समृज्य पुननिष्टप्य दक्षिणहस्तेनैव स्वस्वसंमार्गदर्भप्रहरणं कुर्युः । अत्र चरुश्रपणासंभवे गृहसिद्धान्नेन देवपवित्रसंस्कारसंस्कृतेन होम इति संप्रदायः । " इति ।
  8. घ. ङ. ण स ।
  9. घ.ङ. माञ्योऽवा ।