पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[ग्रहमखप्रयोगः]
१५५
संस्काररत्नमाला ।
( लोकपालादिदेवताबलिदानम् )
 

 तत्र समिदेकैका दूर्वाणां दर्भाणां च त्रिकं त्रिकम्[१] । दूर्वाः सप्तपत्रयुताः पञ्चपत्रयुता वा अच्छिन्ना ग्राह्याः । दर्भाः साग्राः[२] । आज्यं दर्व्यैव होतव्यम् । अङ्गुष्ठाग्रेण[३] ग्रासमात्रं चरुं गृहीत्वाऽङ्गुष्ठेन निष्पीड्य संहताङ्गुलिनोत्तानेन दक्षिणेन हस्तेन[४] होतव्य इति सांप्रदायिकाः ।

 समाप्ते प्रधानहोम आचा[५]र्योऽत्र चेदन्वाधानं पीठदेवताहोमस्य कृतं तदाऽत्र तदीयं होमं कृत्वा स्थापितदेवतानामुत्तरपूजनं विधाय प्रसीदन्तु भवन्त इति तान्संप्रार्थ्यान्वाधानोत्कीर्तितपक्षानुसारेण वारुणीहोमादि स्विष्टकृदादि वा संस्रावहोमात्प्राक्कुर्यात् । समिधां न स्विष्टकृत् ।

 ततः सपत्नीको यजमानो यत्र यत्र बलिसमर्पणं कर्तव्यं भवति तस्मिन्देशेऽग्नेः पश्चा[६]द्वोपविश्याग्न्यायतनस्य समन्उद्दिक्षु सदीपमाषभक्तबली[७]न्दिक्पालेभ्यो दद्यात् । प्रतिबलिसमर्पणं साक्षतं जलं[८] पात्रे क्षिपेत् ।

 त्रातारमिन्द्रमित्यस्य विश्वे देवा इन्द्रस्त्रिष्टुप् । इन्द्रप्रीत्यर्थं बलिदाने विनियोगः--"ॐ त्रातारमि० धात्विन्द्रः" इन्द्राय साङ्गाय सपरिवाराय सायुधाय सशक्तिकायामुं सदीपं माषभक्तबलिं समर्पयामीति साक्षतं जलं[९] पात्रे त्यक्त्वा भो इन्द्र बलिं भक्ष दिशं रक्ष मम सकुटुम्बस्याऽऽयुष्कर्ता क्षेमकर्ता शान्तिकर्ता पुष्टिकर्ता तुष्टिकर्ता निर्विघ्नकर्ता वरदो भवेति प्रार्थयेत् । [१०]अनेन बलिदानेनेन्द्रः प्रीयतामिति ततो वदेत् ।

 अग्ने नयेत्यस्य विश्वे देवा अग्निस्त्रिष्टुप् । अग्निप्रीत्यर्थं बलिदाने विनियोगः "ॐ अग्ने नय सुप० विवेम" । अग्नये साङ्गाय सपरिवाराय सायुधाय सशक्तिकायामुं सदीपं माषभक्तबलिं समर्पया० । भो अग्ने० भव० अग्निः प्रीयताम् ।

 इमं यमेत्यस्य विश्वे देवा यमस्तिष्टुप् । यमप्रीत्यर्थं बलिदाने विनियोगः--"ॐ इमं यम यस्व" यमाय साङ्गाय सपरिवाराय सायुधाय सशक्तिकायामुं सदीपं माषभक्तबलिं समर्पयामि० भव० यमः प्रीयताम् ।

 असुन्वन्तमित्यस्याग्निर्निर्ऋतिस्त्रिष्टुप् । निर्ऋतिप्रीत्यर्थं बलिदाने विनियोगः--"ॐ असुन्वन्तमय० मस्तु" निर्ऋतये साङ्गाय सपरिवाराय सायु


  1. का ख. ग. म । आ ।
  2. घ. ङ. ग्राः । अ ।
  3. क ख. ण चरुं ग्रासमात्रं नि ।
  4. घ.ङ. न. जुहुयादिति संप्रदायः । स ।
  5. क. ख. चार्यः प्रधानहोमान्वाधानोत्तरमन्वाधानं कृतं चेदत्र मण्डलदेवताहो० ।
  6. घ.ङ. श्चादेव वोप.
  7. घ. ङ. लीन्दद्या ।
  8. क. ख. लं क्षि ।
  9. क. ख. ल त्य ।
  10. एतद्वाक्य क. ख. पुस्तकयोर्नास्ति । एवमग्रेऽपि तत्तद्देवतानामवटितमेतद्वाक्यं नास्तीति बोध्यम् ।