पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१५७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[ग्रहमखप्रयोगः]
१५३
संस्काररत्नमाला ।
( अन्वाधानम् )
 

 प्रधानाहुतिसंख्या यदि सहस्रं सहस्रं तदाऽधिदेवताप्रत्यधिदेवतानां शतं शतं, कर्मसंरक्षणदेवतानां दश दश ।

 प्रधानाहुतिसंख्या यदि शतं शतं तदाऽधिदेवताप्रत्यधिदेवतानां दश दश, कर्मसंरक्षणदेवतानां पञ्च पञ्चेति विवेकः ।

 सर्वतोभद्रपीठदेवतानां पूजोत्तरहोमाकरणपक्षे प्रधानोत्तरमेव होमस्य कर्तव्यत्वादत्रान्वाधानं पूर्ववत्कर्तव्यम् ।

 ततोऽङ्गहोमे वरुणं द्वाभ्यामाहुतिभ्यामित्यादि व्याहृत्यन्तत्वपक्षे ।

 प्रसाधनीदेव्यन्तत्वपक्षे त्वग्निं स्विष्टकृतमेकया हुतशेषाहुत्या यक्ष्य इत्यादि ।

 पात्रासादनकाले दर्व्या सह चरुहोमकर्तृदक्षिणहस्तानामाज्यहोमकर्तृसंख्यापरिमितस्रुवाणां चरूद्धरणपात्रस्याऽऽज्यहोमकर्तृसंख्यापरिमिताज्यस्थालीनां चाऽऽसादनप्रोक्षणे कार्ये । हस्तानां स्रुवाणां च संमार्गोऽपि । आसादिता हस्ता आसंमार्गं तत्रैवावस्थिताः स्युः, संमार्गोत्तरं बर्हिषि, अथवाऽऽसादनरहिता एव धर्माः । स्रुवस्थाने तावत्यो दर्व्यो वा । वक्ष्यमाणस्थालीपाकधर्मेण चरूंश्चरुं वा श्रपयित्वा युगपदनेककर्तृकचर्वाज्यहोमनिर्वाहाय सर्वेषां हस्तानां स्रुवाणां च संमार्गः कार्यः । दर्वीपक्षे तासामपि ।

 अथवा होमसमय एव चरुसमिद्धोमकर्तारः स्वस्वदक्षिणहस्तस्य स्ववामहस्तेन प्रोक्षणं कृत्वा निष्टप्याऽऽसादितसंमार्गदर्भैकदेशेन वामहस्तेन संमृज्य पुनर्निष्टप्य बर्हिषि निधाय दक्षिणहस्तेनैव स्वस्वहस्तसंमार्गदर्भप्रहरणं कुर्युरिति । प्रतिदेवतचरुपक्षे तावत्यश्चरुस्थाल्यस्तावन्ति मेक्षणानि च ।

 एकत्रश्रपणपक्षे प्रत्येकं व्युद्धृत्य तत्तद्देवतायै होमः । तेन तेन पर्यग्निकरणकाले सर्वैर्होमद्रव्यैः सहाऽऽज्यस्य पर्यग्निकरणम् । ततः शृतांश्वरूञ्शृतचरूं वाऽभिधार्योत्तरत उद्वास्य बर्हिष्यासाद्य तत्रैवाऽऽसादितेषु चरूद्धरणपात्रेषु, एकचरुपक्ष एकस्मिन्नुद्धरणपात्र उद्धरेत् ।

 एकचरुपक्षे प्रतिदेवतं पङ्क्त्याकारेण विभजेत्, तत्क्रमेणैव होमः ।