मण्डपलक्षणं हेमाद्रौ मात्स्ये--
"गृहस्योत्तरपूर्वेण मण्डपं कारयेद्बुधः । |
उत्तरपूर्वेणेति तृतीया सप्तम्यर्थे । उदक्प्लवमुदक्क्रमनिम्नम् । अष्टौ वा हस्तान्कुर्यादित्यत्र मण्डपार्थमिति शेषः । कुर्यात्स्वी कुर्यादित्यर्थः । दशहस्तमष्टहस्तं वा मण्डपं कुर्यादिति फलितोऽर्थः । विधानत इत्यनेन भूमिशोधननवभागकरणादिः सर्वा क्रिया गृह्यते । तस्य मण्डलस्य ।
कुण्डं तु स्कान्दे--
"नवग्रहमखे कुण्डं हस्तमात्रं समन्ततः । |
अधोहस्तमधोभागे हस्तपरिमितखातम् । योनिवक्त्रं योनिवक्त्रवत् । वक्त्रं कण्ठः, तद्वद्विस्तारवत् । इदं कुण्डं मण्डपपक्षे तदीशानभाग उदीच्यां वा कार्यमिति हेमाद्रिः । मध्य इति केचित् ।
योनिर्मात्स्ये--
"वितस्तिमात्रा योनिः स्यात्षट्सप्ताङ्गुलिविस्तृता । |
तदङ्गुलोच्छ्रायवत्, पार्थयोर्विस्तृतेत्यर्थः । गजोष्ठसदृश्यश्वत्थदलसदृशी वेति विकल्पः ।
सा च योनिः पश्चिमतः कार्या--
"पश्चिमे मध्यभागे तु योनिं कुर्याद्विधानतः" इति गर्गोक्तेः । |
कुण्डाभावे स्थण्डिले होमः कार्यः--
"नित्यं नैमित्तिकं होमं स्थण्डिले वा समाचरेत्" इति शारदातिलकात् । |
अत्र द्वयोर्ग्रहणेन काम्ये[१] न स्थण्डिलमित्यर्थादुक्तं भवति ।
- ↑ ग. घ. ङ. म्ये स्थ ।