हविषो दोष उत्सेकः सूर्यचन्द्रग्रहस्तथा । |
श्रौतोक्तप्रायश्चित्तानामत्र प्राप्तिः श्रौतमध्ये गार्ह्याम्नानबलात् । अविरुद्धत्वाच्छास्त्रान्तरोक्तानां प्राप्तिः । सर्वप्रायश्चित्तमात्रं वा सर्वत्र ।
इति संस्काररत्नमालायां प्रायश्चित्तप्रयोगः ।
इत्योकोपाह्वश्रीमद्गणेशदीक्षिततनूजभट्टगोपीनाथदीक्षितविरचि-
तायां सत्याषाढहिरण्यकेशिस्मार्तसंस्काररत्नमा-
लायां द्वितीयं प्रकरणम् ॥ २॥
अथ तृतीयं प्रकरणम् ।
ग्रहमखः ।
अथ ग्रहमखं वक्ष्ये श्रीदं कर्मसमृद्धिदम् । |
अथ ग्रहमखः । स च नित्यनैमित्तिककाम्यभेदेन त्रिविधः । शुभवारत्रिजन्मनक्षत्रायनविषुवोपरागादिषु नित्यः । उपनयनादिकर्मप्रारम्भेषु नैमित्तिकः । विपदपगमसंपदादिकामनासु काम्यः । तत्र काम्ये मण्डपकुण्डादिकं नित्यम् । नित्यनैमित्तिकयोरनित्यम्--
"नित्यं नैमित्तिकं हित्वा सर्वमन्यत्समण्डपम्" इति मात्स्योक्तेः । |
यदा स्थण्डिलं तदा वेदिरेव न मण्डपः, तथैव शिष्टाचारदर्शनादिति प्रयोगपारिजाते ।