पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२२
[प्रायश्चित्तमन्त्राणामृष्यादि]
भट्टगोपीनाथदीक्षितविरचिता--

 मित्रो जनान्कल्पयतीत्यस्य[१] मन्त्रस्य विश्वे देवा मित्रस्त्रिष्टुप् । वृष्टिबिन्दुपतननिमित्तकपूर्वाहुतिस्थानविहितवैशेषिकप्रथमाहुतौ विनियोगः-- "ॐ मित्रो जनान्कल्पय० ज्जुहोत स्वाहा" मित्रायेदं० ।

 समस्तव्याहृतीनां प्रजापतिः प्रजापतिर्बृहती । प्रादुष्करणकालातिक्रमनिमित्तकप्रायश्चित्ताज्यहोमे विनियोगः-- "ॐ भूर्भुवः सुवः स्वाहा" प्रजापतय इदं० ।

 सग्रहस्य सप्तहोतृमन्त्रस्य प्रजापतिर्वाचस्पतिर्ब्रह्मा यजुः । मनो ज्योतिरि० तिस्त्रिष्टुप् । स्वकाल औपासनहोमानारम्भनिमित्तकप्रायश्चित्ताज्यहोमे विनियोगः "ॐ महाहविर्होता० थिव्यै स्वाहा" वाचस्पतये ब्रह्मण इदं । "मनो ज्योति० घृतेन स्वाहा" मनसे ज्योतिष इदं० ।

 सग्रहस्य सप्तहोतृमन्त्रस्य प्रजापतिर्वाचस्पतिर्ब्रह्मा यजुः । पिण्डपितृयज्ञातिपातननिमित्तकप्रायश्चित्ताज्यहोमे विनियोगः-- "ॐ महाहविर्होता० थिव्यै स्वाहा" वाचस्पतये ब्रह्मण इदं० ।

 समस्तव्याहृतीनां प्रजापतिः प्रजापतिर्बृहती। अमुककर्मार्थाग्निनाशप्रायश्चित्ताज्यहोमे विनियोगः-- "ॐ भूर्भुवः सुवः स्वाहा" प्रजापतय इदं० ।

 अयाश्चेत्यस्य [२]सौत्रमन्त्रस्य वामदेवोऽया अग्निः पङ्क्तिः । औपासनाग्न्यनुगमननिमित्तकप्रायश्चित्ताज्यहोमे विनियोगः-- "ॐ अयाश्चाग्ने० भेषज स्वाहा" अयसेऽग्नय इदं० ।

 समस्तव्याहृतीनां प्रजापतिः प्रजापतिर्बृहती । पृथग्गतौपासनाग्न्येकदेशस्य लौकिकाग्निना श्रौताग्निना वा जातस्य संसर्गस्य दोषपरिहारार्थप्रायश्चित्तहोमे विनियोगः--"ॐ भूर्भुवः सुवः[३] स्वाहा" प्रजापतय इदं० ।

इति प्रायश्चित्तहोममन्त्रास्तेषामृष्यादि च ।

 अथ शास्त्रान्तरोक्तानि प्रायश्चित्तानि गण्यन्ते--

स्वराक्षरादिलोपश्च इध्मादेश्छेदनादिकम् ।
इध्मकाष्ठातिरेकश्चेध्मकाष्ठन्यूनता तथा ॥ १ ॥
अनलस्योपघातश्च स्वयं प्रज्वलनं तथा ।
प्रणीताप्रोक्षणीस्कन्दः शोषणस्रवणे तथा ॥ २ ॥


  1. क. स्य वि' ।
  2. क. सौत्रस्य ।
  3. ग घ. ङ. वः । इ ।