पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[प्रायश्चित्तमन्त्राणामृष्यादि]
१२१
संस्काररत्नमाला ।

 दोषावस्तरित्यस्य [१]सौत्रमन्त्रस्य वामदेवो वरुणो यजुः । सायंहोमकालातिक्रमनिमित्तकप्रायश्चित्ताज्यहोमे विनियोगः-- "ॐ दोषावस्तर्नमः स्वाहा" वरुणायेदं० ।

 समस्तव्याहृतीनां प्रजापतिः प्रजापतिर्बृहती । सायंहोमकालातिक्रमनिमित्तप्रायश्चित्तार्थे पठने विनियोगः--"ॐ भूर्भुवः सुवः" सायंहोमकालातिक्रमनिमित्तप्रायश्चित्तार्थ उपस्थाने विनियोगः, इन्युपस्थानविनियोगवाक्यम् ।

 प्रातर्वस्तरित्यस्य वामदेवो मित्रः सूर्यो वा यजुः । प्रातर्होमकालातिक्रमनिमित्तप्रायश्चिताज्यहोमे विनियोगः-- "ॐ प्रातर्वस्तर्नमः स्वाहा" मित्रायेदं० ।सूर्यायेदमिति वा ।

 समस्तव्याहृतीनां प्रजापतिः प्रजापतिर्बृहती । प्रातर्होमकालातिक्रमनिमित्तप्रायश्चित्तार्थे पठने विनियोगः-- "ॐ भूर्भुवः सुवः", उपस्थाने विनियोग इत्युपस्थानविनियोगवाक्य ऊहः । संग्रहस्य सप्तहोतृमन्त्रस्य प्रजापतिर्वाचस्पतिर्ब्रह्मा यजुः । मनो ज्योतिरि० स्त्रिष्टुप् । एकहोमातिपातननिमित्तकप्रायश्चित्ताज्यहोमे विनियोगः । होमद्वयातिपातनिमित्तकप्रायश्चित्ताज्यहोमे विनियोग इति होमद्वयातिपातननिमित्तकप्रायश्चित्तहोमे । होमत्रयातिपातननिमित्तकप्रायश्चित्ताज्यहोमे विनियोग इति होमत्रयातिपातननिमित्तकप्रायश्चित्तहोमे । "ॐ महाहविर्होता स० थिव्यै स्वाहा" वाचस्पतये ब्रह्मण इदं० । "ॐ मनो ज्यो० घृतेन स्वाहा" मनसे ज्योतिष इदं० ।

 भवतं न इत्यस्य मन्त्रस्य सोमोऽग्नी पङ्क्तिः । अग्न्युपस्थाने विनियोगः-- "ॐ भवतं नः स० द्य नः" । यत्ते वयं यथा हेतिर्द्वयोर्विश्वे देवा अग्निस्त्रिष्टुप् । होमान्तरशननिमित्तकप्रायश्चित्ताज्यहोमे विनियोगः-- "ॐ यत्ते वयं० गग्ने स्वाहा" अग्नय इदं० । "ॐ यथा हत० आयुः स्वाहा" अग्नय इदं० ।

 समिदभ्याधानपक्षे होमान्तरशननिमित्तकप्रायश्चित्तार्थे समिदभ्याधाने विनियोग इति विनियोगवाक्यम् । जपपक्षे जपे विनियोग इति ।

 यत्र वेत्थेत्यस्य विश्वे देवा वनस्पतिर्गायत्री । पूर्वाहुत्युपर्युत्तराहुतिस्कन्दननिमित्तकप्रायश्चित्तार्थे समिदाधाने विनियोगः--"ॐ यत्र वेत्थ व० गामय"

 समस्तव्याहृतीनां प्रजापतिः प्रजापतिर्बृहती । होमद्रव्ये वृष्टिबिन्दुपतननिमित्तकप्रायश्चित्तार्थे जपे विनियोगः । "ॐ भूर्भुवः सुवः"


१६
 
  1. क. सौत्रस्य ।