पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२०
[प्रायश्चित्तमन्त्राणामृष्यादि]
भट्टगोपीनाथदीक्षितविरचिता--

 अस्कान्द्यौरस्कानजनीत्यनयोर्विश्वे देवा यज्ञस्त्रिष्टुप् । स्कन्नस्यौपासनाहुतिद्रव्यस्याभिमन्त्रणे विनियोगः । "ॐ अस्कान्द्यौः पृ० यतु" | "अस्कान० महि" ।

 उन्नम्भयेत्यस्य सोम आदित्योऽनुष्टुप् । स्कन्नस्यौपासनस्याऽऽहुतिद्रव्यस्योपरि जलसिञ्च(सेच)ने विनियोगः--"ॐ उन्नम्भ० दृतिम्" ।

 प्रजापते न त्वदित्यस्य विश्वे देवाः सोमो वा प्रजापतिस्त्रिष्टुप् । स्कन्नस्यौपा० व्यस्य वल्मीकवपायां प्रक्षेपणे विनियोगः--"प्रजापते० रयीणाम्" ।

 भूरित्यस्या व्याहृत्याः प्रजापतिरग्निर्गायत्री । वल्मीकवपाप्रक्षिप्तद्रव्यस्योपस्थाने विनियोगः-- "ॐ भूः" ।

 मही द्यौरित्यस्य विश्वे देवा द्यावापृथिवी गायत्री । कीटावपन्नस्य द्रव्यस्यान्तःपरिधिदेशे निवपने विनियोगः-- "ॐ मही द्योः पृ० मभिः" ।

 गर्भ स्रवन्तमगदमित्यस्य विश्वे देवा अग्निरिन्द्रस्त्वष्टा बृहस्पतिश्च त्रिष्टुप् । औपासनहोमस्थालीस्रवणनिमित्तके स्थाल्यभिमन्त्रणे विनियोगः- "ॐ गर्भ स्रव० राचैः" ।

 अयाश्चेत्यस्य [१]सौत्रमन्त्रस्य वामदेवोऽया अग्निः पङ्क्तिः । अर्वाक्त्रित्ररात्रजाताग्निविच्छेदनिमित्तकप्रायश्चित्ताज्यहोमे विनियोगः--

 "अयाश्चाग्नेऽस्यनभिशस्तीश्च सत्यमित्त्वमया असि । अयसा मनसा धृतोऽयसा हव्यमूहिषेऽया नो धेहि भेषज स्वाहा" अयसेऽग्नय इदं० ।

 अयाश्चेत्य० पङ्क्तिः । मनो ज्योतिरित्यस्य मनस्वतीसंज्ञकस्याग्निर्मनो ज्योतिस्त्रि० । त्रिरात्रप्रभृत्यर्वाक्सप्तरात्रजाताग्निविच्छेदनिमित्तकप्रायश्चित्ताज्यहो०- "ॐ अयाश्चाने०" । "ॐ मनो ज्यो० तेन स्वाहा" मनसे ज्योतिष इदं० ।

 अयाश्चेत्य० पङ्क्तिः । मनो ज्योति० ज्योतिस्त्रिष्टुप् । तन्तुं तन्वन्नित्यस्य सोमस्तन्तुमानग्निर्जगती । सप्तरात्रप्रभृत्यर्वाग्द्वादशाहजाताग्निविच्छेदनिमित्तकप्रायश्चित्ताज्यहोमे विनियोगः--"ॐ अयाश्चा०" "मनोज्यो०" "तन्तुं तन्व० जन स्वाहा" तन्तुमतेऽग्नय इदं ।


  1. क. सौत्रस्य ।