पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[ग्रहयज्ञः]
१२५
संस्काररत्नमाला ।
( सापवादमग्निचक्रम् )
 

 मात्स्ये--

"तस्य चोत्तरपूर्वेण स्थण्डिलं हस्तमात्रकम् ।
त्रिवप्रं चतुरश्रं च वितस्त्युच्छ्रायसंमितम् ।
द्विरङ्गुलोच्छ्रितो वप्रः प्रथमः समुदाहृतः ।
अङ्गुलोच्छ्रायसंयुक्तं वप्रद्वयमथोपरि ।
द्व्यङ्गुलस्तत्र विस्तारः सर्वेषां कथितो बुधैः" इति ।

 तस्य कुण्डस्य । स्थण्डिलं वेदिः । वप्रो मेखला । वितस्तिर्द्वादशाङ्गुला, तया परिमितो य उच्छ्रायस्तेन संमितं संबद्धमित्यर्थः । द्विरङ्गुलोच्छ्रित इत्यत्र सुच्प्रयोग आर्षः । उपरि प्रथमवप्रोपरि । सर्वेषां वप्राणाम् ।

 काम्येऽग्निचक्रमावश्यकम् । तच्च ज्योतिर्निबन्धे--

"सैका तिथिर्वारयुता कृताप्ता शेषे गुणेऽभ्रे भुवि वह्निवासः ।
सौख्याय होमे शशियुग्मशेषे प्राणार्थनाशो दिवि भूतले च" इति ।

 शुक्लप्रतिपदमारभ्यात्र गणनेति सांप्रदायिका ज्योतिर्विदः । एकया [१]सहिता [२]सैका गणितासु तिथिष्वधिकैका तिथिर्गणयितव्येत्यर्थः[३] । अत्रैकवचनं द्वित्रादितिथिविषये जात्यभिप्रायं ज्ञेयम् । वारैर्युता[४] कृता[५]प्तेत्येतद्द्वयं तिथिविशेषणम् । कृतशब्देन कृतादियुगचतुष्ट[६]यबोधितचतुःसंख्या लक्ष्यते । तेन चतुःसंख्याया लाभः । आप्ता [७]भाजिता । गुणास्त्रयः । अभ्रं शून्यम्[८] । शश्येकः । युग्मं द्वौ । अन्यत्स्पष्टम् ।

 एतदपवादस्तत्रैव--

"नित्ये नैमित्तिके कर्मण्यग्निचक्रं न विद्यते" इति[९]

 अग्निचक्रं न विद्यते, अग्निचक्रापेक्षा नास्तीत्यर्थः ।

 अथाऽऽहुतिपातो ज्योतिषे--

"तरणिविद्भृगुभास्करिचन्द्रमाः कुजसुरेज्यविधुंतुदकेतवः ।
रविभतो दिनभं गणयेत्क्रमात्प्रतिखगं त्रितयं त्रितयं न्यसेत् ।
दिनकरार्कितमःकुजकेतवो हुतभुजो न शुभास्त्वितरे शुभाः ।
दहनचक्रमिदं प्रविलोक्यतां हवनकर्मणि सर्वसमृद्धये" इति ।


  1. क. ख. ग. सहिताः ।
  2. क. ख. ग. सैकाः ।
  3. क. र्थ. । वा ।
  4. क. ग. र्युताः कृ ।
  5. क. ग. ताप्ता इत्ये
  6. क. ष्टय ल ।
  7. क. ग. भाजिताः ।
  8. क. म् । अ ।
  9. क. ति । अथा ।