पृष्ठम्:श्र्यङ्ककाव्यम्.pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( २४ )

प्रीताः प्रीतिमथार्पयन्ति सुजनानां शृण्वतां मानसे
ते धन्याः शुभमानसाः कलियुगे सत्कीर्तने तत्पराः ॥१२॥

पञ्चब्रह्ममृगाधिपासनगता वाक्कामशक्तिस्थिरा
विद्याक्षाभयदानवाञ्छितकरा मन्त्रैर्मुनीशैर्नुता ।
वासोरक्तवृता शिरोविधुयुता श्रीवालिकाहृद्गता
पायान्माखिलविघ्नराशिहरिणी भद्रा प्रसन्ना सदा ॥१३॥

भद्रा भागवती भुजङ्गबलिता भाग्येश्वरी भोगदा
भोक्त्री भक्तवशा भुजाम्बुधिपरा भोगैकनिष्ठा भगा।
भर्गेशी भृगुवन्दिता भगवती भूपावभूषिता
भूयाद्भद्रकरी भवाङ्गभजनानन्दा भवानी भुवि ॥१४॥

पञ्चाशद्वरवर्णपङ्क्तिरचिताङ्गा वैखरी देवता
नाभीहद्गलभास्वती पुरहुतिः पश्यन्तिका मध्यमा ।
स्थानान्धौ रहिरन्तरप्रचलिता हुत्साक्षिणी कुण्डली
सर्वप्राणनजीविनी न हि विना तां चित् कलां किञ्चन ॥१५||

ग्रन्थादौ ग्रन्थमध्ये तदवसितिविधौ कुर्वते मङ्गलं ये
तपां देवीप्रसादो भवति हि सततं चायुरारोग्यवृद्धिः ।
लक्ष्मीधान्याभिवृद्धि श्रियमतुलमहामण्डनां प्रामुयुस्ते
वक्तश्रोत्रोहितेच्छुःपुरुषफलचतुष्कं च दद्याद् भवानी ॥१६॥

इति श्रीकृष्णकौरमिश्रविरचिते श्रयङ्के काव्ये
मन्त्रलाधनखङ्गाविर्भावतन्माहात्म्यमङ्गलनिरूपणं नाम

सर्गोऽष्टमः समाप्तः ॥८॥