सामग्री पर जाएँ

पृष्ठम्:श्र्यङ्ककाव्यम्.pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( २५ )

नवमः सर्गः।
मङ्गलाचरणसिद्धाविर्भावपूर्वकसरोविरचनम्


ब्रह्माद्याः पञ्च यस्याः पदकमलयुगोद्वाहिपीठे निषेदु-
र्नित्यं यत्सन्निधित्वादलपरिभवतः प्रेतभावं वहन्तः ।
तत्रस्था वालिका सा मनुमुनिनिकरैः पूजिता नम्रशीः
भक्तानां कार्यसिद्ध्या अभयवरकरी माऽवतात् साक्षविद्या ॥१॥

पादद्वन्द्वं नमामि स्वरुनिकरवमत् स्वर्णमञ्जीरशोभि
लाक्षारागस्रवेण प्लुतसकलमहीं ध्यायतां ते शुभंयु ।
ब्रह्मादीनां शिरःसु स्वरवनिरुहजस्रक्पतद्रेणुरूक्षं
भीमांसान्यायंविद्यागमनिगमतुरङ्गास्यसङ्गीतकीर्ति ॥२॥

नीलाम्भोदावलीरुक्तपनशिशिररुग्धव्यवाड्लोचनाया
दंष्ट्रावल्यावलीढा सुररुधिरचमत्तातिभीष्मस्वरूपा ।
वैयाघ्रच्छन्नदेहा जयति हि जगतां शम्भवित्री स्वनाम्ना
शीर्षाणं मालिकाभिर्भुजगगणयुताभिर्युता कण्ठदेशे ॥३॥

धन्यास्ते बीतदोषा हरमहिषि नरा ये शुभां त्वां भजन्ते
मूलाधारात् प्रयान्ती कमलवनमहारुद्रपीठं भुजङ्गीम् ।
तत्राखाद्यामृतालीमवतरणपरां साधकानां हृदब्जे
ब्रह्माणं दं(सं ?)दधानामकरणविषयां वै मृणालातिसूक्ष्माम् ॥४॥

चतुःश्लोकीमेतां भवति भवदीयस्तुतिपरां
नरो यो लोकेऽस्मिन् पठति कवितायां स उशना ।
अलेके (?) भूपानां मणिरिव प्रभाभासितककु-
प्तिरस्कर्त्ता कान्त्या मदनमहिमानं स मनुजः ॥ ५॥

इत्थं देव्याः स्तुतिमविकलां यः शृणोति प्रसन्नः
सर्वश्रेष्ठां हृदयरुचिरां चन्दनीयो भवेत् सः।