पृष्ठम्:श्रुतबोधः.djvu/६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
॥श्रुतबोधः॥


येन-ग्रन्थेन, श्रुतमात्रेण, श्रुतमाकर्णितमेव श्रुतमात्र तेन- } कर्णगोचरेणैव, छन्दसां-आर्यानुष्टुबादीनां, लक्षणं-वर्ण- मात्राणां स्वरूपं, बुद्ध्यते-अवगम्यते ॥१॥

 भाषा-जिस श्रुतबोध के सुनने मात्र से छंदों का लक्षण जाना जाताहै उस श्रुतबोधनामक ग्रन्थ को संक्षेपसे मैं (कालि दास) कहता हूं ॥१॥

परिभाषा

 संयुक्ताद्यं दीर्घं सानुस्वारं विसर्गसंमिश्रम् । विज्ञेयमक्षरं गुरु पादान्तस्थं विकल्पेन ॥२॥

 अन्वयः-सयुक्ताद्यं, दीर्घं, सानुस्वारं, विसर्गसंमिश्रं, अक्षरं गुरु, विज्ञेयम्, पादान्तस्थं (अक्षरम् ) विकल्पेन ( गुरु विज्ञेयम् )।

 अर्थ:-संयुक्तस्य-संयोगीभूतस्याद्यं-आदिभवं, दीर्घद्विमात्रकम्, सानुस्बारं-अनुस्वारेण सह वर्तमानम्, विसर्गसंमिश्रं-विसर्गेण सह वर्तमानम्,अक्षरं-वर्णः,गुरु-अलघु, विज्ञेयम्-बोध्यम्, पादान्तस्थं-चरणान्तस्थितं, विकल्पेनभावाभावेन, गुरुलघु बोध्यम्। पादान्ते गुरुरपि लघुःस्यात् कुत्रचिल्लघुरपि गुरुः स्यात् । तथा चोक्तं ग्रन्थान्तरे-वा पादान्ते त्वसौ वक्रो ज्ञेयोऽन्यो मात्रको लघुः ।। २ ।।