पृष्ठम्:श्रुतबोधः.djvu/७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
संस्कृत तथा भाषाटीकासहितः


 भाषा-संयुक्त अक्षर से पूर्व का अक्षर दीर्घ होता है और अनुस्वार तथा विसर्ग संयुक्त अक्षर भी गुरु जानना चाहिये। तथा चरण के अंत में भी लघु अक्षर को विकल्प करके गुरु जानना चाहिये ॥२॥

 एकमात्रो भवेद्ह्रस्वो द्विमात्रो दीर्घ उच्यते
 त्रिमात्रश्च प्लुतो ज्ञेयो ब्यजनं चार्द्धमात्रकम् ।।

गणलक्षणम्

  आदिमध्यावसानेषु भजसा यान्ति गौरवम् ।
  यरता लाघवं यान्ति मनौ तु गुरुलाघवम् ॥३॥

अन्वयः-भजसा,आदिमध्यावसानेषु गौरवं यान्ति, यरताः (आदिमध्यावसानेषु ) लाघवं यान्ति, मनौ तु ( श्रादिमध्यावसानेषु ) गुरु लाघवं यातः ॥३॥

 अर्थ:-भजसा:-भगण जगण सगणाः, आदिमध्यावसानेषु, आदिश्च मध्यं च अवसानं च तानि तेषु-प्रथम मध्यम समाप्तिषु, गौरवं-गुरुता यान्ति-गच्छन्ति । तथा हि-आदिगुरुर्भगणः (s॥) मध्य गुरुर्जगणः (।ऽ।)अन्त्यगुरुः सगणः (IIऽ) यरता:-यगणरगणतगणाः ( आदिमध्या वसानेषु ) लाघवं-लघुतां यान्ति, तथाहि-आदिलघुर्यगण-