पृष्ठम्:श्रुतबोधः.djvu/५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

श्रीगणेशाय नमः

श्रुतबोधः

परीक्षोपकारिणी टीका-

तथा

भाषाऽनुवादसहितः ।

ग्रन्थप्रतिज्ञा ।



  छन्दसां लक्षणं येन श्रुतमात्रेण बुध्यते ।
 तमहं सम्प्रवक्ष्यामि श्रुतबोधमविस्तरम् ॥ १ ॥}}

 अन्वयः-अहं अविस्तरं तं श्रुतबोधं सम्प्रवक्ष्यामि, येन श्रुतमात्रेण छन्दसां लक्षणं बुध्यते ।

 अर्थ:-अहं-कालिदासः, न विद्यते विस्तर:-विस्तृतिः निष्प्रयोजनप्रतिपादनंमिति यावत् यस्मिन् तमविस्तरमुपयुक्तगर्भमिति भावः । तं-महाकविकृतत्वेन प्रसिद्धम्, श्रुतबोध-तदाख्यं छन्दो ग्रन्थं, सम्प्रवक्ष्यामि-निरूपयिष्यामि।