पृष्ठम्:श्रुतबोधः.djvu/५२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५०
श्रुतबोधः


द्यौ द्वौषोडशान्त्यौ तथा अन्त्यौ ( अलघू) चेत हे बाले मुनि मुनि मुनिभिः विरोमः दृश्यते,हे सुतनु, वन्द्यैः कवीन्द्रैः सा प्रसिद्वा स्रग्धरा निगदिता ॥ ४३ ॥

 अर्थ:-मृगस्य मदेन - कस्तूर्या, मुदिते – सन्तुष्टे, यत्र-यस्यां, वृत्ती, प्रथमं - पूर्व, चत्वारो वर्णाः-वत्वार्यक्षराणि, अलघव:-गुरवः, (स्युः), षष्ठका-षष्ठः, सप्तमोऽपि (अलघुः) तद्वत् - तथैव, हे रम्भास्तम्भोरुकान्ते ! रम्भायाः - कदल्यास्तम्भवदुर्योः कान्तिर्यस्यास्तथाभूते । षोडशाद्यौ द्वौ चतुर्दशपञ्चदशौ, षोडशान्त्यौ - सप्त दशाष्ठादशौ वर्णौ, तथां - तेन प्रकारेण, अन्त्यौ-विशैकविंशौ गुरू स्याताम्। चेत्-यदि,हे बाले मुनि मुनि २ भि:- सप्तभि, सप्तभिः विराम: --विश्रामः, दृश्यते -ज्ञायते हे सुतनु-सुगात्रि । वन्द्यैः : पूजार्है :, कवीन्द्रैः-कविवरै: स्सा प्रसिद्धा-प्रथिता, सग्धरा - एतदाख्या वृत्तिः, निगता-कथिता । च० अ० २१,ग° म,र,भ,न,य, य,य,यतिः ७, ७,७,sss,sis,SII,III,Iss,Iss, Iss. ॥४३.॥।

 भाषा-हे कस्तूरी से खुश होने वाली ! जिसमें आदि के ४ अक्षर गुरु हों तथा ६,७,१४,१५,१७,१८,२०,२१, ये अक्षर भी दीर्घ हो और हे केले के खंभ के समान सुन्दर जंघावाली ! जिस मे ७।७। वर्णों पर विराम होतो, हे बाले ! हे सुन्दरि ! उसको कवीश्वरों ने स्रग्धरा नामक छन्द कहा है ॥ ४३ ॥