पृष्ठम्:श्रुतबोधः.djvu/५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४९
संस्कृत तथा भाषाटीका सहितः -


भि:-सप्तभिश्च विरति:-विरामः स्यात्तर्हि काव्यरसिका:-कविवराः, तद्वृत्तं-तत् छन्दः, शार्दूलविक्रीडितं- एतन्नामकं प्रवदन्ति- कथयन्ति । च; अ; १९ ग० म, स, ज, स, त, त, गु; यतिः १२, ७, sss, 11s, ISI, IIs,ssI,ssI,s ॥४२॥

 भाषा-हे प्राणप्यारी! जिसमें आदि के तीन अक्षर तथा छठवां और आठवां तथा एकादश से ३ अर्थात् १२,१३,१४, वा तथा अठारह के आदि के २ अर्थात् १६, १७ वो और अन्त का १९ वां ये अक्षर गुरु हों और हे चंद्रमुखि ! जिसमें १२ और 7 अक्षरों पर विराम हो तो काव्य के रसिक उसको शार्दूलविक्रीडितछन्द कहते हैं ॥ ४२ ॥


स्रग्धरावृत्तम् ।


 चत्वारो यत्र वर्णाः प्रथममलघवः
  षष्ठकः सप्तमोऽपि ।
 दौ तद्वत्षोडशाद्यौ मृगमदमुदिते
  षोडशान्त्यौ तथान्त्यौ ।
 रंभास्तम्भोरुकान्ते मुनिमुनिमुनिभि-
  र्दृश्यते चेद्विरामो।
 बाले वन्द्यैः कवीन्द्रैः सुतनु निगदिता
  स्रग्धरा सा प्रसिद्धा ॥ ४३ ॥

 अन्वयः हे मृगमदमुदिते । यत्र प्रथमं चत्वारः वर्णाः अलघवः षष्ठकः सप्तमः अपि ( अलघुः) तद्वत् हे रम्भास्तम्भोरुकान्ते! षोडशा-